________________
Jain Education Inter
गतैर्नतो दुर्योधनेन मातुलिङ्गेन हतः सेनया त्वश्मभिः प्रहतस्तथापि रक्तेषु न रज्यते दुष्टेषु द्वेषं नापद्यते, निवृत्तैः पाण्डवैरश्मराशिं दृष्ट्वा कुरवस्ताडिता अश्मनोऽपनीय साधुश्चिकित्सित्वा क्षामितः ॥ १५१ ॥ युक्तं चैतद्यतीनां यतः ' वंदि ' दिजमाणा न समुक्कसंति, हीलिजमाणा न समुज्जलंति । दंतेण चित्तेण चरति धीरा, मुणी समुग्धाइयरागदोसा ॥ ८६७ ॥
न समुत्कर्षन्ति न कोपात्समुज्वलन्ति । समुद्घातितौ हतौ रागद्वेषौ यैः हन्त्यर्थाश्चेति चुरादित्वात् स्वार्थे णिच् ||८६७|| प्राकृते सुमना अपि समण उच्यते । तत आह ' तो स '
तो समणो जइ सुमो, भावेण य जइ ण होइ पावमणो । सयणे यजणे य समो, समो य माणाव माणेसुं ॥
ततः समणो यदि सुमनाः स्यात् । स च कथमित्याह - भावेनापि न पापमनाः स्वजनेऽन्यजनेऽपि च समः मानापमानयोः समः । ततः सममनस्त्वात् समना अपि । ८६८ ॥ ' णत्थि '
त्थिय सिकोइ वेसो, पिओ व सर्व्वसु चैव जीवेसु । एएण होइ समणो, एसो अण्णावि पज्जाओ ||८६९ ॥
'से' तस्य 'सब्वे० ' सर्वेषां जीवानां मध्ये कोऽपि द्वेष्यः प्रियो वा नास्ति च । सं सामस्त्येन अणति सर्वजीवेषु समतया गच्छतीति समणः || ८६९ ।। गतं सामायिकद्वा० १ । अथ समयिके दृष्टान्तः ' जो कों '
For Private & Personal Use Only
सामायिकद्वारम् ॥
www.jainelibrary.org