________________
संख्येयभागे स्युःएकस्त्विलिकागत्याऽनुत्तरेषु यान् आयान्वा सप्तरज्जुषु वर्तते, षष्ठीं मां च यान् आयान्वा पञ्चरज्जुषु सम्यकित्वनोऽन्त्यपृथ्व्यां गमागमाभावात् ३ । स्पर्शना क्षेत्रादधिका ज्ञेया, यथाऽणोरेकप्रदेशं क्षेत्रं सप्तप्रदेशा स्पर्शना ४ । मतिज्ञानस्थितिकाल एकस्यानेकेषां चोपयोगापेक्षो जघन्य उत्कृष्टोऽप्यन्तमुहूर्त लब्ध्यपेक्षस्त्वेकस्याऽन्तरतमुहूर्त धन (उत्कृष्ट )स्तु साधिकषष्टिसागराः, ततो निर्मलसम्यग्दृशो मोक्ष एव स्यात्, प्रमादिनस्तु मिथ्यात्वं । यस्तु द्वौ वारौ विजयादिषु त्रीन् वारानच्युते यात्येवं संलग्नं सम्यक्त्वं षट्षष्टिसागरान् नृभवायुभिरधिकान् पालयति सोऽवश्यं सिद्ध्यति । नानाजीवानाश्रित्य सर्वकालं मतिज्ञानं विश्वे स्यात् ५ अन्तरं मतेरेकस्य सम्यक्त्वं त्यक्त्वा पुनर्लामेऽल्पमन्तर्मुहूर्त, सम्यक्त्वं वांत्वा पुनरंतर्मुहुर्तेण सम्यक्त्वलाभात् , घनं त्वर्धपुद्गलपरावर्तो देशोनः, नानात्मापेक्षया निरंतरं ६ भागेऽनन्ते सर्वजीवानां मतिवन्तः,७ भावे क्षायोपशमिके औपशमिके क्षायिके च मतिज्ञानं जायते ८ अल्पबहुत्वे जघन्यप्रपद्यमाना अल्पा, जघन्यपूर्वप्रपन्नास्तेऽभ्योऽसंख्यगुणाः ९ उत्कृष्टप्रपद्यमानेभ्य उत्कृष्टपूर्वप्रपन्ना विशेषाधिकाः, तथा सामान्यतो मतिज्ञानी सर्वद्रव्यक्षेत्रकालभावान् विशेषतस्तु सर्वेषामेषामनन्तं भागं जानाति न तु पश्येत् ॥ १५ ॥ अथ निगमयति 'आभि'
आभिणिबोहियनाणे, अट्ठावीसइ हवन्ति पयडीओ ।
सुयणाणे पयडीओ, वित्थरओ आवि वोच्छामि ॥ १६ ॥ अष्टाविंशतिः प्रकृतयो भेदाः पूर्वोक्ताः भवन्ति । उक्तं मतिज्ञानं, 'सुय'त्यादि चकारात् संक्षेपतश्च । अपिशब्दादवधि
Jan Education Intemat
For Private & Personal Use Only
www.jane brary.org