________________
बावश्यकनियुक्तिदीपिका ॥
गत्यादिस्थानेषु|मतिज्ञानचिन्तनम ॥
MA
पूर्वप्रपन्नाः सन्ति, प्रपद्यमानाः स्युन वा, एवं पञ्चेन्द्रिय-त्रसकाय-मिलितयोगत्रय-वेदत्रयाऽन्त्यद्वादशकषायाऽन्त्यलेश्यात्रयासंयत-साकारोपयोगाऽऽहारक-भाषालब्धियुक्त-प्रत्येक-पर्याप्त-बादर-संज्ञि-भव्य-चरमेष्वपि ज्ञेयं, सम्यक्त्वज्ञानद्वारयोर्व्यवहारनयमतेन सम्यग्दृष्टिानी च मतिज्ञानस्य पूर्वप्रपन्नः स्यानान्या, मतिज्ञानं चेत् पूर्व प्रपन्नं स्यात्तदा सम्यग्दृष्टिानी चोच्यते इत्यर्थः,प्रतिपत्तिकाले तस्य मिथ्यादृष्टित्वादज्ञानित्वाच्च । निश्चयनयमतेन तु प्रपद्यमानोऽपि क्रियाकालनिष्ठाकालयोरभेदेन प्रति- पत्तिकाले तस्य सम्यग्दृष्टित्वाद् ज्ञानित्वाच्चानिष्टा निष्पत्तिः। एवं मतिश्रुतावधिज्ञानेष्वपि त्रयाणामपि युगपल्लामे व्यवहारनिश्चयनयो ज्ञेयौ, उभयनयमयत्वात् जैनस्य । एवं संयतसंयतासंयतयोरपि सम्यक्त्वचारित्रयोर्युगपल्लामे सति तथा विकलेन्द्रियाऽमनोयोगिष्वौपशमिक सम्यक्त्वं वमतः उत्पादादपर्याप्तावस्थायां, अनन्तानुवन्धिषु च सास्वादनभावेन पूर्वप्रपन्नाः स्युः, तथाऽवेदाऽकपायाद्यलेश्यात्रयमनापर्यवज्ञानाद्यदर्शनत्रयानाकारोपयोगानाहारापर्याप्तासंज्ञिषु पूर्वपन्नाः स्युर्नान्ये, एकेन्द्रियाद्यकायपञ्चककाययोगिसम्यमिथ्यादृष्ट्यऽज्ञानाभाषकसाधारणसूक्ष्माभव्याचरमा द्वयशून्याः, केवलज्ञानकेवलदर्शने अपि तदा नटुंमि उ छाउमथिए नाणे' इति वक्ष्यमाणत्वात् , एवं सिद्धिगतिप्राप्तातीन्द्रियाकायायोगालेश्या । केवलज्ञानकेवलदर्शननोसंयतनोप्रत्येकनोपर्याप्तनोसूक्ष्मनोबादरनोसंज्ञिनोभव्याश्च सिद्धानामेवेदृगरूपत्वात् १ कार्मग्रंथिकैरेकेन्द्रियाः सास्वादनभावेनौपशमिकसम्यकत्वस्य पूर्वप्रपन्ना उच्यन्ते । उक्ता सत्पदपरूपणा । अथ मतिज्ञानिजीवद्रव्यप्रमाणद्वारे मतिज्ञानिनां पूर्वप्रपन्ना जघन्याः सूक्ष्मक्षेत्रपल्यासंख्येयभागाकाशप्रदेशसमाः, उत्कृष्टास्तु तेभ्यो विशेषाधिकाः प्रपद्यमा. नास्तु स्युन वा, चेत्स्युस्तदैको द्वौ त्रयो वा, उत्कृष्टास्तु जघन्यपूर्वप्रपन्नसमाः । क्षेत्रद्वारे सर्वमतिज्ञानिनो लोकस्याऽ
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org