________________
गई-इंदिऐ य काएं, जोएँ वेएँ कसाय-लेसाँसु । सम्मत्तनाणदसण-संजय उवैओग आहोरे ॥ १४ ॥ भासँगै परित्तै पजत्त, सुहुँमे सर्गणी य भवियं चरिमे य ।
पुवपडिवन्नए वा, माग्गज्जइ एसु ठाणेसु ॥ १५ ॥ गतयो नरकगत्याद्याः चतस्रः १ इन्द्रियशब्देनेकेन्द्रियाद्याः पञ्च २ कायाः पृथ्व्याद्याः पट ३ योगा मनोवाक्कायाः ४ वेदाः पुंस्त्रीक्लीवाः ५ कषाया अनन्तानुबन्धिक्रोधाद्याः षोडशः ६ लेश्या कृष्णवर्णादिकर्मपुद्गलजन्याऽऽत्मनः परिणामाः ७ सम्यक्त्वं रत्नत्रयश्रद्धानं ८ मत्यादिज्ञानानि ९ चक्षुरचक्षुरवधिकेवलदर्शनानि । इह विशेषबोधो ज्ञानं सामान्यबोधो दर्शनं १० संयतः सर्वविरतः ११ साकारानाकारोपयोगी, ज्ञानदर्शनशब्देन मत्यादिज्ञानानि चक्षुदर्शनादीनि च गृह्यन्ते न त्वज्ञानत्रयं, उपयोगशब्देन तु ज्ञानदर्शनाज्ञानान्यपि गृहीतानि १२ आहारः आहारपर्याप्तिमान् १३ भाषको भाषालब्धिमान् १४ प्रत्येक एकदेहे एकजीववान् १५ पर्याप्तः सम्पूर्णपर्याप्तिमान १६ सूक्ष्मः सूक्ष्मकर्मोदयवान् १७ संज्ञी दीर्घकालिकीसंज्ञातः १८ भवी भव्यः १९ चरमः चरमो भवो भविष्यति यस्य स भव्यानामनन्तामप्यसामय्यां सिद्ध्यभावाचरमग्रहणं २० इह गत्यादिस्थानेषु यथासंभवं सविपक्षेषु मतिज्ञानं चिन्त्यते, तत्र सर्वगतिषु विवक्षितकाले मतिज्ञानिनः
.
Jain Education International
For Private & Personal Use Only
'www.jainelibrary.org