________________
आवश्यक
निर्युक्तिदीपिका ||
॥ १४ ॥
Jain Education Internat
तत्व भेद पर्यायानुयोगद्वारैर्व्याख्या क्रियते इति क्रमस्ततो मतिज्ञानतत्त्व भेदावुक्तौ । अथ मतिपर्यायानाह 'ईहा' - हा अपोह वीमंसा, मग्गणा य गवेसणा । सण्णा सई मई पण्णा सव्वं आभिणिबोहियं ॥ १२ ॥
अर्थावग्रहादनु वस्तुनः सद्भूतविशेष ग्रहणाया सद्भूत विशेषत्यागाय चिन्तनं ईहा, अपोहो निश्चयः, ईहाया अनु अपोहात् प्राक् स्थिरत्वादयः, स्थाणुधर्मा अत्र घटन्तेऽसौ विमर्शः, लतारोहप्राप्तिस्थानाद्यन्वयिधर्मालोचो मार्गणा, चलनाभावादि व्यतिरेकधर्मालोचो गवेषणा, आद्यावग्रहादनु शब्दास्पृष्टार्थज्ञानरूपा संज्ञा, कालान्तरे स्मरणं स्मृतिः, ज्ञातेऽर्थे सूक्ष्मधर्मालोचो मतिः प्रभूतधर्मालोचः प्रज्ञा, सर्वमिदं मतिज्ञानम्, किंचित् किंचिद् अर्थमेदेऽपि मतिपर्याया एवैते ॥ १२ ॥ अथ नवानुयोगद्वारैर्मतिज्ञानं प्ररूपयति 'संत'
संतपयपरूवणया, दवपमाणं च खित्त फुसणाय । कालो य अंतरं भाग, भावे अप्पाबहुं चेव | १३ |
सत्पदप्ररूपणा मतिज्ञानरूपस्य सतो विद्यमानस्य पदस्य गत्यादिषु विंशतिस्थानेषु प्ररूपणा पूर्वप्रपन्नप्रपद्यमानैर्मागणा, १ द्रव्यप्रमाणं मतिज्ञानिजीवद्रव्याणां प्रमाणं २ । क्षेत्रं मतिज्ञानिनामवगाहस्थानं ३ स्पर्शनं मतिज्ञानिनः समीपनमः प्रदेशस्पर्शनम् ४ कालो मतिज्ञानस्थितिः ५ अन्तरं मतिज्ञानं त्यक्त्वा पुनर्ग्रहणेऽन्तरकालः ६ भागो मतिज्ञानिनां शेषजीवापेक्षया ७ भावो मतिज्ञानिनां स्वभावः ८ अल्पबहुत्वं पूर्वप्रपन्नप्रपद्यमानयोर्मध्ये स्तोकबहुत्वविचारणं ९ तत्र सत्पदप्ररूपणा यथा ।। १३ ।। ' गइ गाहा' ' भासा गाहा -
For Private & Personal Use Only
मतिपर्यायाः
॥ १४ ॥
www.jainelibrary.org