________________
चतुर्भिः समर्भाषया भाषापुद्गलोकः स्पृष्टः स्यात् , चतुर्ग्रहणात् त्रिपंचसमयादानं ज्ञेयं तुलामध्यादाने आद्यन्ताऽऽदानवत स कथं ? इहातिमन्दप्रयत्नो वक्ता भिन्नान्येव वाग्द्रव्याणि मुञ्चेत तानि स्थूरत्वान्न भिद्यन्ते नाप्यन्यद्रव्याणि वासयन्ति भिद्यमानानि वा संख्यातयोजनानि गत्वा वाक्परिणतिं त्यजन्ति । महाप्रयत्नो वक्ता त्वादाननिसर्गप्रयत्नाम्यां भिवोत्कटशब्दपरिणामानि च कृत्वैव मुश्चेत् , स चेल्लोकमध्यस्थः स्यात् तदा तानि सूक्ष्मत्वात् बहुत्वाचाऽन्यद्रव्यवासकतयाऽनन्तगुणवृद्ध्या वर्धमानान्याये समये षदिक्षु पदण्डा भूत्वा लोकान्तं यान्ति, जीवसूक्ष्मपुङ्गलयोरनुश्रेणिगतित्वात् , द्वितीये दण्डाः पराघातवासितद्रव्यमन्थानः स्युः, तृतीयेऽन्तरपूरणात् लोकं पूरयन्तीति त्रिभिः। स एव वक्ता त्रसनाड्या बहिर्लोकान्तेऽलोकस्यासन्नीभूय पूर्वदिस्थो वदेत् , तदाऽऽद्ये वक्मुखप्रसारमानेन चतुरङ्गुलादिबाहुल्यो रज्वायामो दण्डो अन्तर्नाडी प्रविश्य | स्वयंभूरमणापरप्रान्ते लगति, द्वितीये चतुरंगुलादिबाहुल्यो रज्जुविस्तर ऊर्ध्वाधश्चतुर्दशरज्वायामः पराघातवासितद्रव्याणां कपाटः स्यात तिर्यक्लोके च तेषामेव चतुरङ्गुलादि बाहुल्यं सर्वतो रज्जुविस्तरं च्छत्वरं सिद्धम् । तृतीये ऊर्ध्वाऽधः कपाटे मन्थाः तिर्युक्लोके च्छत्वराचोर्ध्वाधस्त्रसनाडीव्याप्तिः, चतुर्थे मन्थान्तरपूर्तिः इति चतुर्भिः। वक्ता नाड्या बहिर्विदिवस्थश्वेत्तदाऽऽये समये पुद्गलराशिविंदिशो दिशं याति, द्वितीये नाडी प्रविशतीत्यादि शेषसमयत्रयं प्राग्वत् , एवं पञ्चभिः । अत्र व्यादिसमयेष्वनुश्रेणिनिष्कुटा एव पूर्यन्ते, वक्रनिष्कुटपूर्तिस्तु स्वल्पत्वान्न विवक्षिता । त्रिसमयस्थापना चतुः समयैः पञ्च समयैः लोकस्य चरमान्ते भाषायाः सर्वलोकव्यापिन्याश्चरमान्तः स्यात् लोकपूर्तिसमये, शेषसमयेषु तु भाषाया लोकसंख्येयभागत्वादि स्वयं ज्ञेयं, यथा जीवस्य शब्दाण्वादानमोक्षादियुक्तिस्तथा जीवेष्वपि जीवप्रयत्नतारतम्यात स्यात् ॥११॥
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org