SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter उत्सवः १० ऋद्धिः ११ सत्कारः १२ एतैः सामायिकाप्तिः || ८४६ ॥ क्रमाद् दृष्टान्ताः । ' वेजे ' ' सोवा ' वेज्जे मेंठे तह इंदणाग, कयउपण पुप्फसालसुए। सिवदुमहुरवणिभाउय, आहीरदसण्णिलापुत्ते।८४७| सो वारजूहवती, कंतारे सुविहियाणु कंपाए । भासुरवरबोंदिधरो, देवो वेमाणिओ जाओ ॥ ८४८ ॥ अनुकम्पायां यथा कृष्णस्य वैतरिणीवैद्यः साधूनां प्रासुकौषधं ददन्मृत्वा चिकित्साऽऽरम्भात्कपित्वं प्राप्तः । सुष्ठु विहिताऽनुकम्पा सुविहितानुकम्पा तथा तत्र साधुमेकं कण्टकार्दितं वीक्ष्य जातिं स्मृत्वा औषध्या शल्यं कृष्ट्वा वणं च संरोध्य वर्णान् लिखित्वा प्राग्भवं ज्ञापयन् साधुबोधितस्त्रिदिनानशनात्सहस्रारं ययौ १ । मिठो नुपूरपण्डिताकथायां राज्ञी - लुब्धः सराज्ञीको निर्गतो देवकुले, राज्ञ्या चौरलुब्धया मिंठ एव चौरत्वेनार्पितः शूलीप्रोतः श्राद्धशिक्षितं नमस्कारं जलार्थं पठन्नकामनिर्जरया व्यन्तरो जातः सम्यक्त्वमाप, नमस्कारदातृश्राद्धं च चौरत्वाद्वद्धं शिलां विकुर्व्याऽमोचयत् । राज्ञीं नधुतारे चौरेण सर्वमादाय त्यक्तां विषण्णां सामिवास्यजम्बुकरूपेणाबोधयत् २ । इन्द्रनागः परिवाद् बालतपोनिष्ठः पारणमेकगृहे एव कुर्व्वन् श्रीवीदेशाङ्गौतमेन भो अनेकपिण्डक ! एकपिण्डकस्त्वां द्रष्टुमिच्छतीत्युक्तोऽहो ! इमेऽनेकपिण्डका अहं वैकपिण्डक इति विमृशन् जज्ञे मत्पारणे पिण्डशतानि क्रियन्ते एते त्वेकमकृतपिण्डं भुञ्जते । ततो जातजातिस्मृतिः प्रत्येबुद्धोऽभूत् ३ । साधुदानेन गोपालः सुरो भूत्वा कृतपुण्यो जातः प्राब्राजीत् ४ । विनये पुष्पशालगृहपतिसुतो विनयधर्मं श्रुत्वा मातरौ शुश्रूषत्यन्यदा तावपि ग्रामेशं नमन्तौ वीक्ष्यैष आभ्यामधिक इति तं सेवते तमप्यन्यं नमन्तं दृष्ट्वा तं सेवते एवं २८ For Private & Personal Use Only सामायिकाप्तौ दृष्टान्ताः ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy