________________
आवश्यक
निर्युक्तिदीपिका ॥
॥ १५८ ॥
Jain Education Intern
नीयकर्म्म पुद्गलशातं करोति । ततः समुद्घातान्निवृत्य स्वरूपस्थो भवति १ । कषायैः क्रोधादिभिर्हेतुभूतैः समुद्घातः कषायसमुद्घातः । तीव्रकषायोदयाकुलितो हि प्राणी स्वप्रदेशाननन्तानन्तकर्म्मस्कन्धवेष्टितान् बहिः प्रक्षिपति । तैव प्रदेशैरुदराकण्ठादिशुषिराणि कर्णस्कन्धाद्यन्तरालानि च पूरयित्वाऽऽयामविस्तराभ्यां देहमात्रं क्षेत्रमभिव्याप्यान्तर्मुहूर्त्तं यावत्तिष्ठति । तत्र चान्तर्मुहूर्ते प्रभूतकषायमोहनीय कर्म्म पुद्गलशातं विदधाति । ततः समुद्घातान्निवृत्य स्वरूपस्थो जायते इति २ । मरणमेव प्राणिनामन्तकारित्वादन्तो मरणान्तस्तत्र भवो मारणान्तिकः । स चासौ समुद्घातच मारणान्तिकसमुद्घातः । मरणसमये ह्यन्तर्मुहूर्त्तशेषे स्वायुषि केचिदसुमन्तोऽमुं कुर्वन्तीति मारणान्तिक उच्यते । यथा कश्चिञ्जीवोऽन्तर्मुहूर्त्तशेषे स्वायुषि स्वशरीरविष्कम्भवाहल्यान्वितं आयामतस्तु जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रं, उत्कृष्टतस्त्वसङ्ख्येयानि योजनानि शरीराद् बहिः स्वप्रदेशदण्डं निसृजति निसृज्य च यत्र स्थानेऽग्रेतनभवे समुत्पत्स्यते तत्र स्थाने तं प्रदेशदण्डं प्रक्षिपति । तच्चोत्पत्तिस्थानं ऋजुगत्या एकेनैव समयेन प्रदेशदण्डः प्राप्नोति । विग्रहगत्या तूत्कृष्टतः पूर्ववत् चतुर्थे समये । अयं अन्तर्मुहूर्त्तमेव स्यात्तस्मि I वान्तर्मुहूर्त्ते प्रभूतायुष्कर्म्म पुगलशातं करोति ३ । वैक्रियशरीरनामकर्म्मविषयः समुद्घातो वैक्रियसमुद्घातः । वैक्रियशरीरकरणकालविषयो वा समुद्घातो यथा - वैक्रियशरीरलब्धिमान् जीवो वैक्रियकरणकाले विष्कम्भवाहल्याभ्यां शरीरप्रमाणं आयामतस्तु जघन्यतोऽङ्गुलसङ्ख्येयभागमात्रं, उत्कृष्टतस्तु सङ्ख्यातयोजनानि देहाद्बहिः स्वप्रदेशदण्डं करोति । अनन्तान् वैक्रियनामकम्मणून प्राग्बद्धान् शातयति । अन्तर्मुहूर्त्ताद्देहान्तः प्रदेशान् क्षिपति ४ । तेजोलेश्यादिलब्धिमतस्तेजोलेश्यामोक्षसमये तैजससमुद्घातः यथा - तेजोलेश्याकाले लब्धिमान् विष्कम्भवाहल्याभ्यां देहमानं, आयामतो जघन्यं अङ्गुलासङ्घय
I
For Private & Personal Use Only
क्व किं सामायिक
मितिद्वारे
वेदनादिद्वाराणि ॥
॥ १५८ ॥
www.jainelibrary.org