________________
Jain Education Int
भागमानं, उत्कृष्टतः पुनः सङ्खधेयानि योजनान्यऽनन्ततैजसशरीरस्कन्धवेष्टितानां जीवप्रदेशानां दण्डं शरीराद्बहिः प्रक्षिपति ततः क्रोधविषयीकृतं मनुष्यादि निर्दहति । एषोऽपि समुद्घातोऽन्तर्मुहूर्त्तं, तत्र चान्तर्मुहूर्त्ते प्रभूतांस्तैजस शरीरनामकर्म्मपुद्गलान् शातयति ततोऽन्तर्मुहूर्तात् समुद्घातान्निवृत्य स्वरूपस्थो भवति ५ । आहारकशरीरनामकर्म्मविषयः समुद्घातः आहारकसमुद् घातः, यदि वाऽऽहारकशरीरकरण कालविषयः समुद्घातः आहारकसमुद्घातः । यथाऽऽहारकशरीरलब्धिमांश्चतुर्दशपूर्वविदाहारकशरीरकरणकाले विष्कम्भबाहल्याभ्यां शरीर मानं आयामतस्तु जघन्यतोऽगुलासङ्घयेय भागमुत्कृष्टतस्तु सङ्ख्येयानि योजनानि शरीराद्बहिः स्वप्रदेशदण्डं निसृजति निसृज्य च यथा स्थूलान् प्रभूतानाहारकशरीरनामकर्म्मपुद्गलान् प्राग्वद्धान् शातयति । अयमप्यन्तर्मुहूर्त्त, अन्तर्मुहूर्त्ताच्च समुद्घातान्निवर्त्तते । वेदनादिसमुद्घातेषु चतुष्कस्य पूर्वप्रपन्नः स्यान्नान्यः ।। ८२५ ॥ इह नराणां सप्त समुद्घाताः सुराणामाद्याः पञ्च, नारकाणां त्वाद्याश्चत्वारस्तेजोलेश्याया अभावात् । वैक्रियलब्धिमत्संज्ञितिरवां पञ्च, शेषतिरश्चामाद्यास्त्रयः, वायोश्चत्वारः । द्वा० २९ । अथ निर्वेष्टनोद्वर्त्तनद्वारद्वयं ' दव्वे '
वेण यभावेण य, निवितो चउण्हमण्णयरं । नरएसु अणुवट्टे, दुगं चउक्कं सिया उ उवढे ॥ ८२६ ॥ द्रव्यतो निर्वेष्टनं कर्म्मप्रदेशनिर्जरणं विचटनं, भावतः क्रोधादिहानं । तत्र सर्वकर्मनिर्वेष्टयन् चतुर्णां प्रपद्यमानः विशेपतस्तु ज्ञानावरणं निर्वेष्टयन् श्रुतसामायिकमाप्नोति । मोहनीयं तु शेषसामायिकानि । संवेष्टयंस्त्वनन्तानुबन्धादीननुभवन्न प्रपद्यते शेषकर्माश्रित्य द्वेधापि चत्वारि, निर्वेष्टन द्वा० ३० । नरकेष्वनुद्वत्तस्तत्रस्थ एवेत्यर्थः आद्यसामायिकद्विकं प्रपद्यते उद्वृत्तस्तु स्यात्कदाचित् सामायिकानां चतुष्कं त्रिकं द्विकं वा लभते || ८२६ || ' तिरि’
For Private & Personal Use Only
क्व किं सामायिक
मितिद्वारे
निर्वेष्टनो
द्वर्त्तनद्वार
द्वयम् ॥
www.jainelibrary.org