________________
व किं सामायिक| मितिद्वारे | यागोपयो
गशरीर
द्वाराणि ॥
सामान्यतो मिलिते त्रिविधे योगे चत्वारि सामायिकानि स्युर्विशेषतस्त्वौदारिककाययोगवति योगत्रये चत्वारि द्वेधापि, | वैक्रियकाययोगवति तु सम्यक्त्वश्रुते द्वेधापि । देशसर्वविरती तु पूर्वप्रपन्ने स्यातां, न तु प्रपद्यमाने, एवं आहारककाययो- गवति तु देशविरतिवर्ज त्रीणि पूर्वप्रपन्नानि, तैजसकार्मणयोगयोस्त्वन्तरगतौ सम्यक्त्वश्रुते पूर्वप्रपन्ने । कायवाग्योगयो. घण्टालालान्यायेन द्वे आद्ये पूर्वप्रपन्ने स्तः, गतं योगद्वा० १९ । 'उव० ' ननु 'सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स भवन्ती, त्यागमात्कथमनाकारोपयोगे लब्धिरित्युच्यते-प्रवर्द्धमानपरिणामजीवापेक्षोऽयमागमोऽत्र चावस्थितौपशमिकपरिणामापेक्षयाऽनाकारोपयोगे सामायिकलब्धिकथनमित्यविरोधः । इह किल सम्यक्त्वं लब्ध्वा मिथ्यात्वगतानां पुनः शुभोदयात् प्रवर्द्धमानपरिणामे सति सम्यक्त्वादिलब्धिः साकारोपयोग एव स्यात् । आद्यसम्यक्त्वलाभकालेऽन्तरकरणे कृतेऽवस्थितपरिणामस्यानाकारोपयोगेऽप्यौपशमिकसम्यक्त्वश्रुतयोलब्धिःस्यात्कस्यापि विशुद्धतमत्वात्समकालमेव देशसर्वविरत्योरपि । अन्तरकरणेऽवस्थितपरिणामता त्वेवं-'मिच्छस्साणुदओ न हायए तेण तस्स परिणामो। जं पुण सयमुवसंतं न वढएऽवडिओ तेण' । यत्पुनः सत् सत्तागतं मिथ्यात्वमुपशान्तं अतो न परिणामो वर्द्धते । अनिवर्तिकरणे हि मिथ्यात्वोपशान्त्यै प्रतिक्षणमासीत्परिणामवृद्धिः। अन्तरकरणे तूपशमनीयाऽभावाद्दाह्याभावे वहेरिव न परिणामस्य वृद्धिः तेनावस्थितः, उपयोगद्वा०
२०। औदारिके चतुष्कं द्वेधापि । वैक्रिये सम्यक्त्वश्रुतयोजना समर्थना । यथैते सामायिके द्वेधापि स्तोऽन्त्ये तु पूर्वप्रपन्ने NI एव, यतः कृतवैक्रियाङ्गो मयों न प्रपद्यते प्रमत्तत्वात् ॥ ८२१ ॥ शरीरद्वा० २१ । अथ संस्थानसंहननमानद्वारत्रयं ' सव्वे'
सवेसुवि संठाणेसु, लहइ एमेव सवसंघयणे। उक्कोसजहण्णं, वजिऊण माणं लहे मणुओ ॥ ८२२ ॥
Jain Education
For Private & Personal use only
www.jainelibrary.org
lonal