SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ द्रव्यसुप्तो निद्रया, भावसुप्तस्त्वज्ञानी । एवं द्रव्यजागर उन्निद्रो भावजागरस्तु सम्यग्दृग् , तत्र निद्रया भावतोऽपि च । किं सामाजाग्रत्संज्ञिवत् । अपेरयं विशेषः । भावजागर आद्यसामायिकयोः पूर्वप्रपन्न एवान्त्ययोस्तु प्रपत्ताऽपि, निद्रासुप्तः सर्वेषां पूर्व यिकमितिप्रपन्न एव । भावसुप्तस्तूभयशून्यः, व्यवहारनयात् प्रपद्यतेऽपि, गतं सुप्तद्वा०११ । अथ जन्म, तद्गर्भजानाश्रित्य त्रेधा अण्डज | द्वारे सुप्तापोतज-जरायुजभेदात्तत्र क्रमात्सामायिकानां त्रिकं त्रिकं चतुष्कं च पूर्वप्रपन्नं स्यादेच, प्रपद्यमानस्तु भाज्यः । पोतजा दीद्वाराणि। हस्त्याद्याः, जरायुजा नृगवाद्याः ।। ८१७ ॥ गतं जन्मद्वा० १२ । अथ स्थितिद्वा० १३ ' उक्को' उकोसयट्टितीए, पडिवते यणत्थि पडिवण्णो । अजहण्णमणुकोसे, पडिवते य पडिवण्णे ॥८१८॥ ___ आयुवर्जकर्मणामुत्कृष्टस्थितौ चतुर्णां पूर्वप्रपन्नः प्रपद्यमानश्च न भवति । अजघन्यानुत्कृष्टस्थितौ चतुर्णां प्रपद्यमानः सम्भ- IN वति, पूर्वप्रपन्नश्च स्यादेव । आयुषस्तूत्कृष्टस्थिती अनुत्तरसुरः आद्यसामायिकयोः पूर्वप्रपन्नः स्यात् । सप्तमभूनारकस्तु षण्मासशेषायुस्तथाविधविशुद्वियुक्तत्वादाद्यसामायिकयोः प्रथमसमये प्रपद्यमानो द्वितीयादिसमयेषु तु पूर्वप्रपन्नः स्यात् । आयुषो जघन्यस्थितिः क्षुल्लकभवः स च निगोदसूक्ष्मपृथ्वीकायादिसंमूछिमनृणां स्यात् । तत्र चतुर्णामपि सामायिकानाभावः, तथा आयुर्वर्जजघन्यकर्मस्थितिबन्धकस्तु दर्शनसप्तकातिक्रान्तः क्षपको योऽन्तकृत्केवली स्यात् , स ह्यपूर्वकरणावस्थायामासन्नमोक्षत्वेन विशुद्धतराध्यवसायत्वाच्छेषक्षपकेभ्योऽतिलघुस्थितिबन्धक इति स एव गृह्यते । स च देशविरतिवर्जसामायिकत्रयस्य पूर्वप्रपन्नः स्यात् , देशविरतिपरिणामाभावात् । अत्र च पूर्वोपात्तकर्मस्थित्या न विचारः किन्तु बध्यमानकर्मस्थित्यैव ॥८१८॥ गतं स्थितिद्वा० १३ । अथ वेदसंज्ञाकषायद्वारत्रयं 'चउ' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy