SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ कतिविधद्वारम् ॥ सम्यक्त्वसामायिकं श्रुतसामायिकं चारित्रसामायिकं च । सम्यक्त्वसामायिक द्विधा निसर्गजं अधिगमजं च, यद्वा दशधा एकैकस्यौपशमिक १ सास्वादन २ क्षायोपशमिक ३ वेदक ४ क्षायिक ५ मेदात, तत्रौपशमिकमुपशमश्रेणी प्रथमसम्यक्त्वलाभे वान्तरकरणस्थस्य १ सास्वादनमौपशमिकाच्यवतो मिथ्यात्वं अप्राप्तस्य २ । क्षायोपशमिकं सम्यक्त्वं पुद्गलान्वेदयमानस्य ३ । वेदकं तु दर्शनत्रिकं क्षपयतश्चरमपुञ्जसम्यकत्वाणुवेदने ४ । क्षायिक दर्शनसप्तकक्षयजं शुद्धात्मस्वभावरुचिरूपं ५। त्रिधा वा कारकरोचकदीपकभेदात् । तत्र कारकं यतीना, रोचकं श्रेणिकादीनां, दीपकं अङ्गारमर्दकाद्यभव्यानां स्वयमश्रद्धानेऽपि परस्य दीपकत्वात् । श्रुतसामायिक सूत्रार्थतदुभयरूपत्वात्रिधा । प्रागुक्ताऽक्षरादिभेदाद्वाऽनेकधा । चारित्रसामायिकं पञ्चधा सामायिकाद्युक्तभेदात्, द्विधा वाऽगारिकाऽनागरिकभेदात् । चारित्रभेदसाक्षादाख्यानमस्मिन् सत्यनयोनियमभावज्ञप्त्यै ।। ७९७ ॥ मूलभाष्यकृत् श्रुतसामायिक व्याख्यास्तस्याध्ययनरूपत्वादाह — अज्ज्ञ' अज्झयणपि य तिविहं, सुत्ते अत्थे य तदुभए चेवासेसेसु वि अज्झयणेसु,होइ एसेव निज्जुत्ती॥१५०॥ अध्ययनं अपिशब्दात त्रीण्यपि सामायिकान्यौपशमिकक्षायोपशमिकक्षायिकभेदात्रिधा, प्रस्तुतसामायिकाध्ययनाच्छेषेष्वपि चतुर्विंशतिस्तवाद्यध्ययनेष्वेषवोद्देशनिर्देशाद्या निरूक्तिप्रान्ता नियुक्तिज्ञेया, सर्वद्वाराऽसमाप्तावप्यतिदेशो ' मध्यादाने आद्यन्तादानज्ञप्त्यै ॥ १५० ॥ उक्तं कतिविधद्वा० १४ । अथ कस्येतिद्वा०१५'जस्स' जस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इइ केवलिभासियं ॥ ७९८ ॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy