________________
Jain Education Inte
तुर्य 'रूवेसु वा रूवसहगएसु वा दव्वेसु' रूपाण्यजीवानि पुत्तलिकादीनि १, रूपसहगतानि तु सजीवानि ख्यादीनि । षष्ठं व्रतं निशिचतुराहारविषयमिति एवं चारित्रं सर्वद्रव्यविषयं ॥ ७९२ ॥ ' जीवो '
गुणपडिवन्नो, यस दवट्टियस्स सामइयं । सो चेव पज्जवट्ठियणयस्स, जीवस्स एस गुणो ॥ गुणैः सम्यकत्वादिभिराश्रितो जीवो द्रव्यरूप एवार्थः प्रमाणं यस्य स द्रव्यार्थिको नयस्तस्य जात्यैकवचनं, तत्वतस्तु द्रव्यनयानां आत्मैव सामयिकं गुणास्तु न सन्त्येव तद्व्यतिरेकेणानवगम्यत्वात् । तत्प्रतिपत्तिरपि भ्रान्ता चित्रे निम्नोन्नतप्रतिपत्तिवत् । स एव सामायिकादिगुणः पर्यायार्थिकनयस्य प्रमाणं न तु जीवद्रव्यं । यस्माञ्जीवस्यैष गुणो जीवगुण इति, तत्पुरुषोऽयं स चोत्तरपदप्रधानो यथा तैलस्य धारा तैलधारेति । न चात्र धारायाः परं तैलमस्त्येवं ज्ञानगुणातिरिक्तो जीव नास्ति अनुपलम्भात्, रूपात्पृथग्भूतघटवत् । ततः समतागुणः सामायिकं नाऽऽत्मा ।। ७९३ ।। ' उप '
उप्पज्जंति वयंतिं य, परिणमंति य गुणा ण दव्वाई | दव्वप्यभवा य गुणा ण गुणप्पभवाइं दवाई ॥ ७९४ ॥
द्रव्यनयो वक्यहो ! गुणा न सन्त्येव यतस्ते उत्पद्यन्ते व्ययन्ते वेत्येवं परिणमन्ति न तु द्रव्याणि ततस्तान्येव सन्ति नित्यं स्थितत्वादपराजन्यत्वाच्च । द्रव्यप्रभवा गुणाः परं गुणप्रभवानि द्रव्याणि न, तत आत्मैव सामायिकं। अथैनामेव गाथां पर्यायनयो व्याख्याति । उत्पद्यन्ते व्ययन्ते च गुणा एवातस्त एव सन्ति उत्पादव्ययपरिणामत्वात् पत्रनीलरक्ततादिवत् न तु द्रव्याण्यतस्तानि न सन्येव उत्पादव्ययपरिणामहीनत्वात् शशशृङ्गवत् । किं च ' द्रव्यप्रभवा गुणा न च गुणप्रभवानि
For Private & Personal Use Only
किंसामायिकमिति
द्वारम् ॥
www.jainelibrary.org