SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ निवाः॥ रजोतिर्मुखपोतिश्च २। कल्पेन सह ३। कल्पद्वयेन सह ४। तृतीयेनोर्णाकल्पेन ५। नव ९ रजोहरणमुखवस्त्रिकापन्न २ पत्ताबंधो ३ पायठवणं ४ पायकेसरिया ५ पडलाइं ६ रयत्ताणं ७ गोच्छओ ८ पायनिजोगो एतैः ९ । कल्पेन १० कल्पद्वयेन ११ कल्पत्रयेण १२ ततः शिवभूतिः किं जिनकल्पोऽधुना न क्रियते ? किं दोषमूलोपधिपरिग्रहेण ? जिना अप्यचेला एवासन्नित्युपधौ पृच्छा । स्थविराणां गुरूणां कथना यथा-'मणपरमो हि पुलाए, आहारगखवगउवसम कप्पे । संजमतियकेवलि सिज्झणाय जंबृमि वुच्छिन्ना'।१। मनोज्ञानं १ परमावधिः २ पुलाकलब्धिः ३ आहारकदेहः ४ क्षपको ५ पशमश्रेणी ६ जिनकल्पः ७ परिहारविशुद्धयादिसंयमत्रिकं १०, तथाऽयतीनां नाग्न्येऽपि न कषायादिदोषहानी रागादिमत्त्वात्तिर्यग्वत् । यतीनां तु वस्त्राद्यपापाय संयमहेतुत्वात् शुद्धाहारादिवत् , प्रतिलिख्य प्रमृज्योपवेशने धर्मध्वजस्य, संपातिमसवादिरक्षायै मुखपोतेर्जीवयतनायै पात्रस्य, शीतातपादिवेदनायामसहस्य चित्तस्थैर्यवत्वेन महिकावर्षादौ च संयमहेतुत्वं वस्त्राणां स्पष्टमेव । एवं च परिग्रहोऽपि न 'न सो परिग्गहो वुत्तो' इत्यादि। उक्तं-जिनानामपि न सर्वथाऽचेलत्वं 'सल्वेवि एगद्सेणेत्यायुक्तेः । स च तदमन्वानः कषायमोहाद्युदयानग्नी भृतः । उत्तराख्या तत् स्वसापि तथैव कृत्वा भ्रातृपृष्ठिगामिनी वेश्यया मास्मासु जनो व्यराङ्क्षीत इति वासः परिधापिता। भ्रात्रा च बीभत्सेयमिति सोक्ता सूर्या दत्तमिदं न त्याज्यं ॥१४६॥ अत्र भाष्यं 'ऊहा' | ऊहाए पण्णत्तं, बोडियसिवभूइउत्तराहि इमं । मिच्छादसणमिणमो, रहवीरपुरे समुप्पण्णं ॥१४७॥ शिवभूत्युत्तराभ्यां ऊहया विचारेण प्रज्ञप्तं ॥ १४७ ॥ 'बोडि Jain Education Inter For Private & Personal Use Only |www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy