SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ निवाः॥ al पुट्ठो जहा अबद्धो, कंचुइणं कंचुओ समन्नेइ । एवं पुट्ठमबद्धं, जीवं कम समन्नेइ ॥१४३॥ (मू. भा.) | स्पृष्टः परं यथाऽबद्धः, कञ्चुकः कञ्चुकिनं नरं समन्वेति । एवं स्पृष्टमबद्धं कर्म जीवं समन्वेति । जीवः कर्मणा स्पृष्टो न तु बद्धः वियुज्यमानत्वात् कञ्चकेनेव तद्वानिति । ततो विन्ध्यस्य दुबलिकापुष्पमित्रगुरुपार्श्वे पृच्छा-गुरुराह-माहिलोक्तो हेतुरनैकान्तिकोऽन्योऽन्याविभागानामपि क्षीरनीरादीनामुपायतो वियोगदर्शनात् दृष्टान्तोऽपि न साधनधानुगः स्वप्रदेशस्यात्मना सह सम्बन्धासिद्धेः यतोऽत्र सम्बन्धो भिन्नानां संयोगे सतीष्यते, स च भिन्नत्वात्कर्मणो जीवेन सहास्ति न तु प्रदेशस्य, अनादिकालादपि जीवस्वप्रदेशयोरेक्यात् , यच्चोक्तं 'जीवः कर्मणा स्पृष्ट इत्यादि' तत्र चेत् कञ्चकेनैव बाह्यप्रदेशेष्वेव | स्पृष्टो न तु प्रतिप्रदेशं तदाऽऽन्तरप्रदेशेष्वात्मनः सहवत्ति आन्तरज्ञानं प्रतिघाताभावादनन्तं सर्वदा स्यान्न चैतद् दृष्टमिष्टं वा । तथा कर्मबन्धहेतुजीवाध्यवसायस्य ज्ञानमयस्य सर्वात्मनि सद्भावात्कर्मवेदनायाः सर्वात्मनाऽनुभवनाच्च सर्वात्मप्रदेशैर्बद्धं कम्र्मेति मन्तव्यं एवमपि जीवकर्मणोवियोगः स्यादेव यतः जीवात्कर्म वियुज्यते मृतत्वे सत्यविभागसम्बन्द्धत्वात् स्वर्णमलवत् । कर्मवियोग एव मोक्षः। एवं विन्ध्येनोक्ते गोष्ठामाहिलो निरुत्तरः सन् नवमपूर्वे प्रत्याख्यानाधिकारे वक्ति ॥१४३ ॥ 'पञ्च' पच्चक्खाणं सेयं, अपरिमाणण होइ कायवं । जेसिं तु परीमाणं, तं दुटुं आससा होइ ॥१४४॥ (मू.भा.) श्रेयोहेतुत्वात् श्रेयः, अपरिमाणेनावधिं त्यक्त्वेत्यर्थः । परिमाणप्रत्याख्यानं पौरुष्यादि दुष्ट, यतस्तत्र ‘आससा' अनुस्वार Jain Education Intel For Private & Personal Use Only | www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy