________________
आवश्यक नियुक्तिदीपिका ॥
॥१४६॥
वाए पराजिओ सो, निविसओ कारिओनरिंदेणं। घोसावियं च णगरे, जयइ जिणो वद्धमाणोति॥१४०॥ निहवाः॥
गतः षष्ठो निहवः ॥ १४० ॥ 'पंच' 'दस' पंचसया चुलसीया, तइया सिद्धिं गयस्स वीरस्स।अबद्धियाण दिट्ठी, दसपुरनयरे समुप्पण्णा ॥१४॥
दसपुरनगरुच्छुघरे, अजरक्खियपूसमित्ततियगं च ।गोट्ठामाहिल नवमट्ठमेसु, पुच्छा य विंझस्स॥१४॥ ___इक्षुगृहे इक्षुवाटे रक्षितः प्रावाजीत् । तच्छिष्याः घृतलब्धिमान् घृतपुष्पमित्रः तस्मै अधना वृद्धा धिग्जापि स्त्री षण्मासमीलितं घृतं हृष्टा दद्यात् , एवं वस्त्रपुष्पमित्रः । तथा नवपूर्वी नित्यं घृताश्यपि सर्वश्रुतचतुरनुयोगार्थस्मृतिध्यानात्कृशो दुर्बलिकापुष्पमित्रः इति पुष्पमित्रत्रिकं अभूत् । तथा दुर्बलिकापुष्पमित्रः १, विन्ध्यः २, फल्गुरक्षितः ३, गोष्ठामाहिलश्चेति ४ प्राज्ञाः । रक्षितैर्मथुरायां नास्तिकवादिजयाय गोष्ठामाहिलः प्रेषि । स्वयं च कालं कुर्वद्भिलिकापुष्पमित्रः पट्टेऽस्थापि । गोष्ठामाहिलो वादिनं जित्वाऽऽयातो दुबलिकापुष्पमित्रं पट्टे श्रुत्वा अमर्षात् पृथक्स्थानस्थस्तच्छिद्राण्यपश्यन् साधून व्युद्ग्राहयितुं चाक्षमो गर्वाद् दुर्बलिकापार्श्वे न भृणोति किन्तु तत्पार्श्वेऽधीत्य विन्ध्यस्य — नवमट्ठमेसुत्ति नवाष्टमपूर्वयोर्विचारं चिन्तयतोऽन्तिके शृणोति, अन्यदाअष्टमपूर्वे किश्चित्कर्माऽऽत्मप्रदेशैर्वद्धमात्रमेव शुष्ककुड्यलग्नधूलीवद्विघटते, किश्चित्तु बद्धस्पृष्टं आत्मप्रदेशैरात्मीकृतमार्द्रकुडये सस्नेहचूर्णवत, किञ्चित्तु निकाचितं आत्मना सहान्यध्यापिण्डवदैक्यं प्राप्तं इति विन्ध्योक्ते आह-नैवं मोक्षाभावाऽऽः यतो जीवाद् बद्ध कर्म नवियुज्यते अन्योऽन्यविभागासम्बद्धत्वात् स्वप्रदेशवत् ।।१४२॥ ततः 'पुट्ठो' ॥१४६॥
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org