SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Jain Education In ॥ १३८ ॥ ' सिरि ' सिरिगुत्तेणऽवि छलुगो, छम्मास विकड्डिऊण वायजिओ । आहरण कुत्तियावण, चोयालसएण पुच्छाणं ॥ श्रीसेन वसतौ आगतः वक्ष्यमाणषट्पदार्थस्थापकत्वादुलुकगोत्रप्रभवाच्च षडुलूको रोहगुप्तोऽभाणि त्वया श्रुतानुक्तमुक्तं ततो राजसमक्षं ब्रूहि वादिनिग्रहाय राशित्रयं स्थापितं परं श्रुते नास्तीति । सोऽनिच्छन् गुरुणा राज्ञोऽग्रे षण्मासान् वादे विकृष्यातिवाह्य तत्प्रणीतद्रव्यगुणकर्म्मसामान्यविशेषसमवायरूपषट्पदार्थसम्बद्धवक्ष्यमाणपृच्छानां चतुश्चत्वारिंशदधिकशतेन कुत्रिकापणे आहरणानि दृष्टान्तान् प्रदर्श्य जितः । कूनां पृथ्वीनां त्रिके त्रिभुवने यद्रव्यं तद्देवानुभावाल्लभ्यते लक्षेण येषु ते कुत्रिकापणाः ।। १३९ ।। पृच्छा एवाह ' नव ' , नव द्रव्याणि, गुणाः सप्तदश, कर्म्मसत्तयोद्वे पञ्चके, कर्म्मपञ्चकं सत्तापञ्चकं चेत्यर्थः ॥ १ ॥ अमुमर्थं स्पष्टयति ' भूज भूजलजलणानिलनहकालादिसाया मणो य दवाई | भण्णंति नवेयाई सत्तरस गुणा इमे अण्णे ॥२॥ भूमिः १ जलं २ ज्वलनः ३ अनिलः ४ नमः ५ कालः ६ दिक् ७ मनः ८ आत्मा च ९ नवैतानि द्रव्याणि भण्यन्ते 4 ॥ २ ॥ रूव रूवरसगन्धफासा संखा परिमाणमह पुहुत्तं च । संजोगविभागपरापरत्तबुद्धी सुहं दुरकं ॥३॥ १ अत्र ग्रन्थकारेः सत्तापकमध्ये विशेषसमवाययोरन्तर्भावः कृतो दृश्यते परं विशेषावश्यकभाष्ये तयोः पृथम्भावो दृश्यते । २५ ܕ For Private & Personal Use Only निह्नवाः ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy