SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter मिहिलाए लच्छिघरे, महागिरि कोडिण्ण आसमित्ते य । णेउणियाणुप्पवाए, रायगिहे खंडरक्खा य ॥ मिथिलायां लक्ष्मीगृहचैत्ये महागिरिशिष्य कोडीन्नशिष्योऽश्वमित्रोऽनुप्रवादपूर्वे नैपुणिकाख्यं वस्तु पठन्नुत्पत्त्यनन्तरं वस्तुसमुच्छेद इति दृष्ट्वा विप्रतिपन्नस्तथैव वदन् गुरुणा पर्यायरूपेणैवेदमुक्तं न तु द्रव्यरूपेण, चेद् द्रव्यरूपेणाप्युच्छित्तिः स्यात् तदा किमाश्रित्य क्षणिकत्वव्यवस्था । तथाऽणुर्नित्यः पर्यायेषु सत्स्वपि मुख्यस्वरूपाऽहाने रनन्तज्ञानवदित्युक्तोऽप्यनिच्छन् राजगृहापराख्ये काम्पील्यपुरे खण्डरक्षादाणग्राहिणस्तैः कुव्यमानो यूयं श्राद्धा मां साधुं किं हथेत्याख्यांस्त्वन्मतेन ते वयं न च त्वं स इत्यबोधि, तुर्यनिह्नवः ४ ॥ १३२ ॥ ' अड्डा ' ' इ अट्ठावीसा दो वाससया, तइया सिद्धिं गयस्स वीरस्स । दोकिरियाणं दिट्ठी, उल्लुगतीरे समुप्पण् ॥ इखेडजणवउल्लुग, महागिरि धणगुत्त अजगंगे य। किरिया दो रायगिहे, महातवोतरि मणिणाओ ॥ १३४ ॥ उल्लुकाजनपदे उल्लुका नदीतटे धूलीप्राकारवृत्तं खेटमुच्यते । तत्र खेटस्थाने महागिरिशिष्यधनगुप्त शिष्यगङ्गाचार्यो नदीमुत्तरन् खल्वाटशीर्षे आतपोष्णं पदोश्चाम्बुशैत्यमनुभवन्नाह - एकसमये क्रियान्यानुभवः इति वदन् गुरुणा नैकसमये क्रियाद्वयानुभवः किन्तु समयमनसी सूक्ष्मत्वान्न लक्ष्येते, तथा शैत्यौष्णे युगपन्न संवेद्येते भिन्नदेशत्वात् विन्ध्य हिमाद्रिस्पर्शक्रियावत् इत्युक्तोऽप्यनिच्छन् राजगृहे महातपस्तीरे प्रभाख्ये जलाशये मणिनागाख्ययक्षचैत्ये युगपत् क्रियाद्वयानुभव रूपयन् यक्षेण अरे ! श्रीवीरवरादपि त्वं दक्ष इत्युक्तोऽबोधि । गतः पञ्चमः ॥ १३४ ॥ ' पंच ' For Private & Personal Use Only निह्नवाः ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy