SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका ॥ ॥१३८॥ त्वात् । तदपि स्वं वस्तु नान्यदीयं निष्फलत्वात् । तच्च तटस्तटी तटं इति लिङ्गः, आपोऽम्बुइत्यादिर्वचनैर्नामस्थापनाद्रव्य- नयाः ॥ भावश्च भिन्नमप्येकमेव गृह्णाति । अतीतादिवक्रत्यागादजु सूत्रयतीति ऋजुसूत्रो नयविधिनयमार्गः, एष बौद्धः । अमी चत्वारो द्रव्यनयाः। अथ पर्यायनया वैयाकरणाहताः। 'इच्छइ' नामस्थापनाद्रव्यवर्ज तुल्यलिङ्गवचनस्वपर्यायध्वनिवाच्यं । अत एव विशेषिततरं प्रत्युत्पन्नं शब्दनय इच्छति यथेन्द्रः शक्रो हरिरित्यायेकं एकार्थवाचित्वात् , न तु तटस्तटीत्यादि ।।७५८॥ 'वत्थू INT वत्थूओ संकमणं, होइ अवत्थू णए समभिरूढे । वंजणमत्थतदुभयं, एवंभूओ विसेसेइ ॥७५९॥ वस्तुनो घटाख्यस्यान्यत्र कुटाख्यादौ सङ्कमणं अवस्तु असदित्यर्थः समभिरूढे नये मतं, 'घटि चेष्टायां' 'कुटि कौटिल्ये' N'उभ पूरणे' इत्यादिना घटकुटकुम्भादीनां भिन्नभिन्नप्रवृतिनिमित्तत्वात भिन्नवस्तुत्वं घटपटादिवत् । 'बंज' एवम्भूतो नयः al व्यञ्जनं शब्दः अर्थस्तद्वाच्यं तद्रूपमुभयं, को भावः, शब्दं अर्थेनार्थं च शब्देन विशेषयति । यथा चेष्टया घटशब्दं, घटश ब्देन च चेष्टां, ततः शिरस्थश्चेष्टते तदा घटो नान्यदा चेष्टायोगेन स्वस्वरूपान्तराद् वस्त्वन्तरापत्तेः, एवम्भूतार्थवादित्वादेवम्भृतः । एषु परः परः सूक्ष्मविषयः ॥ ७५९ ॥ 'जावइया वयणपहा तावइया हुंति नयवाया' इत्यस्ति, तथापि रूढ्या 'एक्के' Vा एकेको य सयविहो, सत्त णयसया हवंति एमेव। अण्णोऽवि य आएसो, पंचेव सया नयाणं तु॥७६०॥ अन्योऽपि चादेशः यथा ५००। तत्र शब्दादीनामैक्यात् नैगमः १ सङ्ग्रहः २ व्यवहारः ३ ऋजुत्रं ४ शब्द ५ इति । | ॥१३८॥ Jain Education Intern For Private & Personal Use Only Miww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy