SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ नयाः ॥ यद्वा निगमाः पदार्थबोधास्तेषु भवो नैगमः। यथा क त्वं तिष्ठसीति पृष्टो लोकेवाऽपि तिर्यग्लोके एवं नृक्षेत्रे आद्यद्वीपे भरतक्षेत्रे अमुकदेशे पुरे पाटके वसतौ पट्टे आकाशप्रदेशेषु देहे तिष्ठामीति विकल्पान् सर्वान् । तथा प्रस्थो धान्यमानं । तद्योग्यकाष्टं वृक्षावस्थायां ततस्तच्छिन्नं, स्कन्धे कृतं, गृहानीतमित्यादि निष्पत्तिं यावत् सर्वावस्थासु प्रस्थकं । तथा कतिचिन्नृष्वायातेषु ग्रामोऽसावित्यादिवाक्यविशेषांश्वेच्छेत् ॥ ७५६ ॥ 'संग' | संगहियपिंडियत्, संगहवयणं समासओ बेंति । वच्चइ विणिच्छियत्थं ववहारो सवदत्वेसुं ॥७५७॥ पिण्डितः सत्त्वाख्यधर्मेण एकजातिमापन्नः सामान्यरूपोऽर्थः पिण्डितार्थः स सङ्ग्रहीतो येन तत् । सङ्ग्रहनयस्य साङ्ख्य- | मीमांसकादृतस्य वचनं ब्रूवते अर्हन्तः । तथा स चैवं ब्रूते घटादिविशेषाः सत्वाद् भिन्ना अभिन्ना वा, अभिन्नाश्चेत्तदा सामान्यमेव, भिन्नाश्चेत्तयवस्तु असत्त्वात् । वच्चइ ' व्रजति व्यवहारनयश्चार्वाकमतः सर्वद्रव्येषु निराधिक्येन चयो निश्चयः सामान्यं, विगतो निश्चयो विनिश्चयः सामान्याभावस्तदर्थ, कोऽर्थः द्रव्येषु विशेषानेष गच्छति । यथाऽऽम्रादिविशेषेभ्यः पृथगू वृक्षत्वादिसामान्यं नास्ति अनुपलम्भात् व्यवहारासाधकत्वाच्च । यद्वा विनिश्चयार्थं सर्वलोकव्यवहारार्थ यथाऽलिं पञ्चवर्णमपि श्याममेवेच्छेत् ॥ ७५७ ॥ 'पच्चु' पञ्चुप्पण्णग्गाही उज्जुसुओ, नयविही मुणेयत्रो । इच्छइ विसेसियतरं, पञ्चुप्पण्णं णओ सदो ॥७५८॥ प्रत्युत्पन्नग्राही ऋजुत्रः। यथा प्रत्युत्पन्नं वर्तमानमेव वस्तु क्षणिकं नातीतमेष्यं च तयोविनष्टानुत्पन्नत्वेनावस्तु Jain Education Intercom For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy