SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ लक्षण द्वारम॥ वीरियभावे य तहा, लक्खणमेयं समासओ भणियं । अहवावि भावलक्खण, चउविहं सद्दहणमाई॥ नामलक्षणं, स्थापनालक्षणं, द्रव्यलक्षणं, सादृश्यलक्षणं, सामान्यलक्षणं, आकारलक्षणं, गत्यागतिल०,नानात्वल०,निमित्तल०, उत्पादल०, विगमल०, वीर्यल०, भावल० । तत्र द्रव्यल० यद्यस्य धर्मादिद्रव्यस्य स्वरूपं गतिलक्षणादि । सादृश्यल० यथायं घटस्तथान्येऽपि । सामान्यल० द्विधा अनर्पितं अर्पितं च, तत्रानपितं अविशिष्टं यथासिद्धः सर्वोऽप्यमूर्चत्वादिनाऽन्यसिद्धैः समः १। अर्पितं तु विशिष्टं यथैकसमयसिद्ध एकसमयसिद्धनैव समो नान्येन २ । आकारल० आकारेगितगत्यादिभिर्मनोगतभावलक्षणं । द्वयोः पादयोर्विशेषणविशेष्ययोरनुलोमगमनं गतिः, प्रतिलोमागमनमागतिस्ताभ्यां ते एव वा लक्षणं गत्यागतिलक्षणं चतुर्धा पूर्वपदव्याहृतं १ उत्तरपदव्याहृतं २ उभयपदव्याहृतं ३ उभयपदाव्याहृतं च ४ तत्र पूर्वपदव्याहृतं यथा रूपी घटः किं वा घटो रूपी, अत्र रूपी घटादन्योऽपि स्यात घटस्तु रूप्येव । उत्तरपदव्याहृतं यथा जीवति, जीवः किं वा जीवो जीवति अत्र जीवति स जीव एव । जीवस्तु जीवति नो वा, सिद्धानां प्राणाभावेन जीवनाभावात २ । एवं उभयपदव्याहृतं नीलोत्पलं ३ । उभयपदाव्याहृतं आत्मा ज्ञानी ४ । नानात्वलक्षणं स्वैरन्यैश्च द्रव्यक्षेत्रकालभावभिन्नता । तत्र स्वैर्द्रव्यर्यथा अणूनामन्योऽन्यं नानात्वं १ । अन्यैस्तेषामेव व्यणुकादिभिः नानात्वं २। एवं एकादिप्रदेशावगाढेकादिसमयस्थित्येकादिगुणशुक्लानां स्वैरन्यैश्च नानाता ज्ञेया नानाताया लक्षणत्वं पदार्थस्वरूपावस्थापकत्वात् । निमित्तमेव शुभाशुभयोर्लक्षणं निमित्तलक्षणं, तद्दिव्याघष्टधा, उत्पाद एव लक्षणं यतो नानुत्पन्न वस्तु लक्ष्यते । एवं विगमो विनाशोऽपि, यतो न वक्रतयाऽविनष्टमङ्गुलिद्रव्यं ऋजुतयोत्पद्यते । ध्रौव्यलक्षणं तु द्रव्यलक्षणाभिधानेनैवोक्तं ध्रुवत्वद्रव्ययोरैकार्थ्यात् , पद्व्याणामपि च द्रव्यत्वेन कदाप्यविनाशाच्च । Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy