________________
हता गौतमादीनां क्रमाद् द्रव्यगुणपर्यवैस्तीर्थमनुज्ञातं, सुधर्म चादौ कृत्वा स्वस्वायुर्यावद्युष्मदायत्तास्ततः सुधर्मायत्ता इति || गणाश्च अनुज्ञाताः चूर्णवृष्टिः प्रभुणा देवैश्च कृता ।। ७३६ ॥ अथ पुरुषद्वारं 'दच' ।
द्वारम् ॥ दवाभिलावचिंधे, वेए धम्मत्थभोगभावे य । भावपुरिसो उ जीवो, भावे पगयं तु भावेणं ॥ ७३७ ॥
द्रव्यपुरुषोऽभिलापपुरुष इत्यादि । तत्र नोआगमतो ज्ञशरीराद्यतिरिक्तो द्रव्यपुरुषस्त्रिधा । एकस्माद्वर्तमानभवादनु यः | पुमान् भावी स एकभविकः १ स एव पुरुषायुर्वन्धादनु बद्धायुष्कः २ अभिमुखे अन्तर्मुहुर्तादनु भावितया पुरुषनामगोत्र यस्य सोऽभिमुखनामगोत्रः ३ अभिलापशब्दस्तद्रपः पुरुषो यथा पुल्लिङ्गो घटः, अपुरुषोऽपि नृचिह्नश्चिह्नपुरुषो यथा नृवेषा स्त्री। स्त्रीपुंक्लीवेषु पुंवेदोदये वेदपुरुषः धर्मार्जनपरो धर्मपुरुषः साधुः। एवं अर्थपुरुषः मम्मणः, प्राप्तसमस्तभोगो भोगपुरुषः स चक्री । 'भावे' भावद्वारे भावपुरुषः आत्मा। पुरि देहे शेते इति व्युत्पत्तेः, सामायिकेऽर्थतो भावपुरुषेणार्हता तुशब्दात्सूत्रतो | वेदपुरुषेण च गणिना प्रकृतं ॥ ७३७ ॥ उक्तं पुरुषद्वा० ६ 'निक्खे' । |णिक्खेवो कारणंमी, चउविहो दुविहु होइ दवमि। तद्दवमण्णदवे, अहवावि णिमित्तनेमित्ती ॥७३८॥ ____ नाम १ स्थापना २ द्रव्य ३ भावमेदात् ४ चतुर्दा कारणे निक्षेपः । तत्रापि ज्ञशरीरभव्यशरीरव्यतिरिक्ते द्रव्यकारणे द्विधा निक्षेपः । तद्द०' तव्यकारणं अन्यद्रव्यकारणं च, तस्य घटपटादेरेव द्रव्यं तद्रव्यं तन्त्वादि तदेव कारणं अन्यद्रव्यं वेमादि २, यद्वान्यथा द्विधा कारणं निमित्तकारणं नैमित्तिककारणं च । तत्र पटस्य निमित्तकारणं तन्तवो नैमित्तका
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org