________________
वर्णाङ्काद्याकारेष्वयममुको वर्णोऽको वा इति च ॥ ३ ॥ नामसत्यं निर्धनोऽपि श्रीपतिः ॥ ४॥ रूपसत्यं अक्रियोऽपि वेषभृत्त्वाद् यतिः॥५॥ प्रतीत्यसत्यं यथा तृणं दीर्घ वंशाद्यपेक्षया तु इस्वं ॥ ६॥ व्यवहारसत्यं क्रियमाणं कृतं इत्यादि, दह्यते गिरिः, गलति कुंडीत्यादि च ॥ ७॥ भावसत्यं बहुशुक्लत्वादिभावं आश्रित्य यथा पंचवर्णत्वेऽपि (हंसः श्वेतः) कृष्णः काक इत्यादि ॥ ८॥ योगसत्यं दंडयोगात् दंडी समेतीत्यादि ॥ ९॥ औपम्यसत्यं समुद्रवत् सरः ॥ १०॥ सत्यविपरीतस्वरूपा मृषा सापि दशधा क्रोधात्सत्यमसत्यं च वदतः क्रोधासत्या ॥१॥ एवं मानमायालोमेभ्योऽपि सत्यमसत्यं वा वदतो मानासत्याद्याः ॥ ४॥ प्रेमतो दासोऽहं ते ॥५॥ द्वेषात जिनादेः अवर्ण वदतः ॥ ६॥ हास्यात् त्वं चौरः ॥ ७ ॥ भयात् कृतं निह्नवतः ॥ ८॥ आख्यायिकातः कथास्वसंभाव्यकथने ॥ ९ ॥ उपघातात् अभ्याख्यानादिदाने उपयोगाभावे जिह्वादिस्खलनेऽन्यथा कथने वा ॥ १० ॥ किंचित् सत्यं किंचिदसत्यं च सत्यामृषा, सापि दशधा, उत्पन्न मिश्रा, यथा चतुएं जातेषु दश पुत्रा जाताः ॥१॥ एवं विगतमिश्रा दश मृता इति ॥ २ ॥ उत्पन्नविगतमिश्रा उभयोरपि विसंवादे ॥शा जीवमिश्रा बहून् जीवान् जीवतोऽल्पांश्च मृतान् दृष्ट्वाऽहो जीवराशिरिति ॥४॥ एवं अजीवमिश्रापि अहो मृतजीवराशिः॥५॥ जीवाजीवमिश्रा ज्ञात्वा अत्रेयन्तो जीवन्त इयन्तश्च मृता इति निश्चयोक्तौ ॥ ६॥ अनन्तमिश्रा शाखादीनामनंत(नां प्रत्येक)कायिकत्वेऽपि च सर्वोऽपि मूलकोऽनन्तकायः॥७॥ प्रत्येकमिश्रा किशलयादिष्वनन्तकायेषुस त्स्वपि सर्वोप्याम्रः प्रत्येकः ॥८॥ अद्धामिश्रा सूर्य अनस्तमितेऽपि त्वरयन् वदति रात्रिर्जातेति ॥९॥ अद्धाद्धामिश्रा दिनस्य रात्रेश्चैकदेशोऽद्धाद्धा तया मिश्रा यथाऽऽद्ययामे जातेऽपि त्वरयन मध्याह्न जातमिति वक्ति ॥१०॥ एतद्भाषात्रयलक्षणरहिता शब्दार्थ
Jain Education Inter
For Private & Personal use only
-www.jainelibrary.org