________________
आवश्यक
निर्युक्त दीपिका ||
॥ १२ ॥
Jain Education International
तृतीयादिष्वपि, अन्त्ये तु मुश्चत्येव नाऽऽदत्ते, स्थापना प्र नि ॥ ७ ॥ ' तिचि '—
० प्र०
तिविहम्मि सरीरंमि, जीवपएसा हवंति जीवस्स ।
जेहि उ गिण्हइ गहणं, तो भासइ भासओ भासं ॥ ८ ॥
औदारिकवैक्रियाहारकरूपे त्रिविधे शरीरे जीवस्य जीवप्रदेशा भवन्ति, जीवस्य प्रदेशा इत्येवोच्यमाने भिक्षोः पात्रं इत्यादिवत् जीवात् प्रदेशानां भिन्नताऽपि स्यात् तद् (तस्माद् ) उक्तं जीवप्रदेशा जीवस्य आत्मभूता इत्यर्थः, यैः ग्रहणं वाग्द्रव्यौषं गृह्णाति तुशब्दात् न सदैव, किन्तु वक्तव्योपक्रमे सति, ततो गृहीत्वा भाषको भाषां भाषते || ८ || 'ओरा' - ओरालिय वेउब्विय आहारो, गेण्हई मुयइ भासं । सञ्चं सच्चामोसं, मोसं च असच्चमोसं च ॥९॥
औदारिकः, वैक्रियः, आहारकः तद्देहत्रयवान् इत्यर्थः । गृह्णाति मुञ्चति च भाषां, तत्र नृतिर्यंच औदारिकदेहिनः, देवनारका वैक्रियदेहाः, आहारकदेहश्चतुर्दशपूर्विकृतः स्यात्, किंविधां भाषां ? 'सच्च' मित्यादि, सत्यां, सत्यामृषां, मृष, असत्यामृषां च । इह भाषाभेदान् स्पष्टान् वच्मि । सविद्यमानेभ्यो जीवादितत्वेभ्यो हिता भाषा सत्या, यथास्थितवस्तुस्वरूपाभिधायिनीत्यर्थः, सा दशधा जनपदसत्यं यथा कोंकणादिषु पयः पिच्चमित्यादि ॥ १ ॥ संमतसत्यं कविरूढिः अकिरियराहुमहदुद्धरिसेत्याद्या, कुमुदादीनामपि पङ्कोत्थत्वे पद्ममेव पङ्कजमित्याद्या च ॥ २ ॥ स्थापनासत्यं लेप्यादिष्वयं जिन इति,
For Private & Personal Use Only
इन्द्रियवि
षयग्रहण
युक्तिः ॥
॥ १२ ॥
wwwwww.jainelibrary.org