________________
ग्रहणयुक्तेः विषमत्वात् शब्दपुद्गलानां च व्यापकत्वात् पङ्गाथाभिः भाषाग्रहणादिविचारमाह ॥ ५॥ भासा'भासासमसेढीओ सदं, जं सुणइ मीसयं सुणई । वीसेढी पुण सदं, सुणेइ नियमा पराघाए ॥६॥
इह वक्त्रा उच्यमानानि शब्दद्रव्याणि भाषा उच्यते, तानि च सर्वलोके सन्ति, तथा श्रेणयो नभःप्रदेशपंक्तयः ताश्च सर्वस्यैव भाषमाणस्य षट्सु दिक्षु सन्ति, यास्तच्छृष्टा भाषाऽऽद्यसमयादारभ्य लोकान्तं अनुधावति, भाषायाः समश्रेणयो भाषासमश्रेणयः ता इतो गतो भाषासमश्रेणीतः, षट्सु दिक्षु समपंक्तिगतोऽयं शब्दं शृणोति, तं भाषकोत्सृष्टं तद्भावितान्तरालस्थशब्दद्रव्यमिश्रितं शृणोति, विश्रेणि विदिशं इतः पुनः नियमात् पराघाते सति शृणोति, उत्सृष्टभाषाद्रव्याभिघातवासितान्यशब्दद्रव्यौघमित्यर्थः, न तूत्सृष्टं मिश्रं वा, तयोरनुश्रेणिगतेः प्रतिघाताभावाच, द्विः शब्दोक्तिः वासितशब्दस्यापि तथाविधशब्दपरिणामज्ञप्तेः । इह भाषकः शब्दपुद्गलान् स्वात्मप्रदेशव्याप्ताकाशदेशस्थानेवाऽऽदत्ते न त्वन्यदेशस्थान् ॥६॥ 'गिण्ह'गिण्हइ य काइएणं, निसिरइ तह वाइएण जोएणं । एगंतरं च गिण्हइ, निसिरइ एगंतरं चेव ॥
अत्र एक एव कायव्यापारो व्यवहारात त्रिधा उच्यते, येन तु द्रव्याण्यादत्ते स कायिकः, येन तु वागद्रव्याणि मुंचति स वाचिकः, येन मनोद्रव्याणि मनस्त्वेन परिणमयति स मानसः, तत्र कायिकेन योगेन वागद्रव्याणि गृह्णाति, च एवार्थ तथा वाचिकेन तु निसृजति मुञ्चति, एकान्तरं च गृह्णाति, एकान्तरं चैव निसृजति यथा ग्रामादन्यो ग्रामो ग्रामान्तरं । तथा एकस्मात् समयात् एक एव अनन्तरोपि समय एकान्तरः, कोऽर्थः आद्यसमये आदत्ते द्वितीये पूर्वाऽऽत्तानि मुश्चति, युश्चगपदन्यान्यादत्त अत्रैकसमये निसर्गादानक्रियाद्वयं नदोपाय, यतः एकसमये उपयोगद्वयं न स्यात् , परं क्रियावद्दयोऽपि स्युः, एवं
Jain Education Interne
For Private & Personal Use Only
Twww.jainelibrary.org