________________
बावश्यकनियुक्तिदीपिका ॥
इन्द्रियविषयग्रहणयुक्तिः ॥
॥११॥
अवग्रहो नैश्चयिकोऽर्थावग्रह एकं समयं स्यात् , ईहावायौ मुहूर्ताध स्यातां, इह मुहूर्तशब्देन घटिकाद्वयमानः काल उच्यते, तस्याऽधं तुशब्दो विशेषणार्थः तेन मुहूर्ताशब्देन तत्त्वतोऽन्तर्मुहूर्त ज्ञेयं, अन्ये तु 'मुहुत्तमंत' तु पठन्ति, तत्र मुहूर्तान्तरित्यन्तर्मुहूर्तमेवेत्यर्थः । 'काले'त्यादि कोऽर्थः त्रिविधाया धारणाया मध्येऽविच्युतिस्मृती अन्तर्मुहूर्त वासना त्वसंख्यातवर्षायुषां असंख्येयं संख्येयवर्षायुषां संख्येयं कालं स्यात् , यद्यप्यभ्यासादिवशाद् रूपादीनां त्वरितं ग्रहणं जायते तथाप्यवग्रहाद्याः क्रमेण सर्वदाऽपि स्युः, परं कालस्य सूक्ष्मत्वात् ते भवन्तो न ज्ञायन्ते । एवं विशिष्टविशिष्टतरज्ञानेऽवग्रहेहावायधारणा परंपरा बहव्यः स्युः ॥ ४ ॥ इन्द्रियविषयग्रहणयुक्तिमाह ॥ ४ ॥'पुटुं'पुढे सुणेइ सदं, रूवं पुण पासई अपुढे तु । गंधं रसं च फासं च, बद्धपुढे वियागरे ॥५॥
जीवः स्पृष्टं तनौ रेणुवत श्रोत्रे लग्नमात्रं शब्दं शब्दद्रव्यौघ, श्रोत्रस्य घ्राणादिभ्यः पटुत्वात, शब्दस्य च गन्धादिभ्यः सूक्ष्मत्वभावुकत्वबहुद्रव्यत्वात् , उत्कृष्टत आत्माङ्गुलनिष्पन्नेभ्यो द्वादशयोजनेभ्य आगतं शृणोति, रूपं पुनरस्पृष्टं साधिकं | योजनलक्षं यावदभासुरं, भासुरं तु परतोऽपि पश्यति तद्योग्यस्थानस्थमेव, तुरेवार्थः । गन्धं रसं स्पर्श च बद्धस्पृष्टं व्याकुर्यात् , स्पष्टं च तदात्मप्रदेशः सह बद्धं च बद्धस्पष्टं, नूतनशरावेण सहाम्भोवत् । तत्र गन्धं रसं स्पर्श उत्कृष्टतो नवयोजनागतं जीवो वेत्ति, गन्धादीनां पुद्गलानां बादरत्वाभावुकत्वाल्पत्वात् , घ्राणादीनां चापटुत्वात् , जघन्यतः तु सर्वेन्द्रियाण्यगुलासंख्येयभागादागतं विषयं जानन्ति । चक्षुस्त्वगुलसंख्येयभागस्थं पश्यति, मनसस्तु न विषयप्रमाणं, पुद्गलानां अमूर्ताणां धर्माधर्माकाशकालात्मद्रव्याणां च ग्राहित्वात् केवलज्ञानवत् ॥ ५ ॥ इह मतिभेदाधिकारे रूपरसगन्धादिग्रहणात्, शब्दस्य
॥११॥
Jan Education inte
For Private & Personal use only
www.janelibrary.org