SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat शब्दादीनां अर्थानां मधुरतादयः शङ्खधर्मा अत्र घटन्ते न तु खरतादयः शार्ङ्गधर्मा, इत्यादौ सद्भूतार्थविशेषाद् ग्राहकेऽसद्भूतार्थविशेषत्यागाभिमुखे इन्द्रियैः मनसा च संजाते विचारणे ईहा । अत्र ईहावग्रहभेदाः सामान्यग्राहित्वात् दर्शनं, ते तु चक्षुदर्शनचक्षुदर्शनयोरन्तर्भवति । शेषभेदाः तु विशेषग्राहित्वाद् ज्ञानं । इह तु बोधरूपत्वात् ज्ञानशब्देन एव द्वयमप्यातं ज्ञेयं । तथा शांख एवायं शब्द इत्यादौ व्यवसाये निश्चयेऽवायोsवगमः | अर्थानां शब्दादीनां धरणं धारणं ब्रुवते अर्हदाद्याः । सा विच्युतिस्मृतिवासनाभेदात् त्रिधा । तत्र शब्दादीनां अवाये सति संलग्नः तदुपयोगोऽविच्युतिः । कालान्तरे पुनः तस्य स्मरणं स्मृतिः, तयोरन्तरे स्मृतिहेतुः संस्कारो वासना । पुनः शब्दो निश्वये । इह दृङ्मनोवर्जेन्द्रियाणां भावाच्चतुर्धा व्यञ्जनाऽवग्रहः । सर्वेन्द्रियमनोजातत्वात् षोढार्थावग्रहः । एवं ईहावायधारणा अपि प्रत्येकं षोढा सर्वाक्षमनोभिर्भावित्वात्, ततः सर्वे एते भेदाः २८ अष्टाविंशतिः । इह व्यञ्जनावग्रहो ज्ञानहेतुत्वाद् अव्यक्तबोधात् च ज्ञानत्वेनोक्तः । अमी च बहु १ बहुविध २ क्षिप्र ३ निश्रित ४ निश्चित ५ ध्रुव ६ अबहु ७ अबहुविध ८ अक्षिप्र ९ अनिश्रित १० अनिश्चित १९ अध्रुवाख्यैः १२ द्वादशभेदैः गुणिताः त्रीणि शतानि षट्त्रिंशदधिकानि स्युः । तत्र बहुवाद्यनादे इयन्तो भेरीशब्दा इयन्तोऽन्येषां इत्यवाये बहुनामवायास्तस्येहावग्रहयोरपि बहुसंज्ञा ज्ञेया, स्निग्धत्वमाधुर्याद्यव ग्रहणे बहुविधं, शिघ्रावग्रहणे क्षिप्रः ध्वजादिलिङ्गनिश्रया चैत्येऽमी शब्दा इत्यादिज्ञानं निश्रितः, असंशये निश्चितः, सदैव तथाsar ध्रुव इति भेदैः स विपक्षैरबह्वादिभिर्विभिन्ना द्वादश, एवं मेदानन्त्यमपि क्षयोपशमवैचित्र्यात् ॥ ३ ॥ ' उग्ग' - उग्गह इक्कं समयं, ईहावाया मुहुत्तमं तं (मर्द्ध) तु । कालमसंखं संखं च धारणा होइ नायव्वा |४| For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy