SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिदीपिका ॥ ॥१०॥ उग्गह ईहाऽवाओ य, धारणा एव हंति चत्तारि । आभिणिबोहिअनाणस्स, भेयवत्थू समासेणं ।। आभिनि बोधिक____ अव्यक्तं रूपादेः ग्रहणं अवग्रहः ॥ १॥ अवगृहीताऽर्थविशेषालोचनमीहा ॥ २ ॥ ईहितार्थनिश्चयोऽवायः ॥ ३ ॥ अव- TH ज्ञानस्य | गतार्थस्य हृदि संलग्नं असंलग्नं वा धरणं धारणा ॥ ४ ॥ चशब्दोऽवग्रहादीनां पृथक् पृथक् स्वरूपज्ञापकः, एवमिति क्रमेण भेदाः आभिनिबोधिकज्ञानस्य भेदवस्तूनि भेदपदानि चत्वारि समासेन संक्षेपेण स्युः ॥ २ ॥ इह विशेषोपयोगी ज्ञानं, सामान्यो ॥ पयोगो दर्शनम् , तत्र ज्ञानात् दर्शनस्य अल्पावरणत्वात् आदौ छद्मस्थानां दर्शनं स्याद् , अत आह ॥ २ ॥ 'अत्था'--- अत्थाणं ओगहणम्मि, उग्गहो तह वियारणे ईहा । ववसायम्मि अवाओ, धरणं पुण धारणं विति ॥३॥ अर्थानां शब्दादीनां अवग्रहणे निर्विकल्पादाने अवग्रहः। स द्विधा व्यञ्जनाऽवग्रहोऽर्थावग्रहश्च । तत्र व्यंजनानां शब्दादिद्रव्याणां उपकरणेन्द्रियप्राप्तानां अवग्रहोऽव्यक्तं ग्रहणं व्यजनावग्रहः । अयं दृड्मनोवर्जेन्द्रियाणां स्यात, दृङ्मनसोस्तु स्वस्वविषयद्रव्यैः सहामिलनात् न, व्यञ्जनावग्रहन्त्यसमये चक्षुर्मनसी त्वाश्रित्याद्यसमये चोपात्तशब्दाद्यर्थानां अवग्रहोऽर्थावग्रहः। कोऽर्थः-सुप्ताद्यवस्थायां शब्दादिद्रव्याणां श्रोत्रादीन्द्रियैः सहयोगे यावन्न चेतयते तावद् व्यञ्जनाऽवग्रहः, स चान्तरमुहूर्त, चेतनासमये तु अर्थाऽवग्रहः, स तु आद्यसमये नैश्चयिकः, शेषकालं हंकारादिकुर्वन् ईहाया अर्वाग् व्यावहारिकोऽतर्मुहूर्त छद्मस्थोपयोगस्यान्तर्मुहर्तमात्रत्वात ॥ तत्र मनसः स्वप्नेऽक्षव्यापार विना च ध्यायतोऽर्थावग्रहः स्यात् , तथार्थावग्रहगृहीतानां Jain Education Internet For Private & Personal Use Only Lelww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy