________________
मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाणं' इति वचनात् । चशब्दोऽनयोः स्वाम्यादिसाम्योद्योती, कथं ? यथा सम्यग्दृष्टिः मतेः स्वामी तथा स एव श्रुतस्यापि, यावान् मतेः स्थितिकालः तावान् श्रुतस्यापि, यथा मतिः सर्वद्रव्यविषया तथा श्रुतमपि,इन्द्रियसमुत्थे च द्वे अपि एवकारादेते व्यवहारात् प्रत्यक्षे अपि निश्चयात् परोक्षे, आत्मनो बाह्येन्द्रियैरर्थग्रहणात् । प्रत्यक्षाण्येवाऽन्यानि । अवधिमर्यादा सावधानता वा तया ज्ञानं अवधिज्ञानं, च शब्दो मतिश्रुताभ्यां सह स्वामि- | कालविपर्ययलाभसाम्यार्थः, कथं ? य एव मतिश्रुतयोः स्वामीः स एव अवधेरपि, यावान् मतिश्रुतयोः कालस्तावानवधेरपि. यथा मिथ्यादृशां मतिश्रुते अज्ञाने तथा इदं विभंगज्ञानं स्याद् इति विपर्ययसाम्यं, विभङ्गज्ञानिनः सम्यक्त्वाप्तौ त्रयाणामपि युगपद् ज्ञानत्वस्य भावात् लाभसाम्य, मनसः पर्यवाः पर्याया आकृतिविशेषाः तेषां ज्ञानं मनःपर्यवज्ञानं, तथाशब्दोऽव-13 धिना छगस्थस्वामित्वरूपिद्रव्यग्राहित्वसाम्यार्थः, केवलं अन्यज्ञानानपेक्षं सम्पूर्ण च ज्ञानं केवलज्ञानं, चः पूर्वणाऽप्रमत्त- | भावयतिस्वामित्वाऽविपर्ययत्वसाम्यार्थः। अयं च ज्ञानानां क्रमः प्राय इत्थमेव लाभात् , आद्यं स्वावमासि, द्वितीयं स्वपरावभासि, तृतीयं प्रत्यक्षं, तुर्यय तीनामेव, पश्चम क्षायिकं (शेषाणि) क्षयोपशमजन्यानि इति यथोत्तरं प्राधान्याच । मतिश्रुतयोरऽयं विशेषः, सर्वेन्द्रियोपलब्धार्थग्राहिणी मतिः, श्रोत्रेन्द्रियोपलब्धार्थग्राहकं तु श्रुतं, यद्वा उत्पन्नाविनष्टार्थग्राहिणी वर्तमानकालविषया मतिः, क्वचित त्रिकालग्राहिणीत्यपि, श्रुतं तु त्रिकालविषयमुत्पन्नविनष्टाऽनुत्पन्नाऽर्थग्राहि । तत्र मतिज्ञानं द्विधा श्रुतनिश्रितं अश्रुतनिश्रितं च । अश्रुतनिश्रितं वैनयिकीवज्योत्पत्तिक्यादिधियः ॥१॥ श्रुतनिश्रितं तु यत्पूर्व श्रुतोद्भवं विषयग्रहणकाले तु तदनपेक्षं अवग्रहादि ॥ १ ॥ 'उग्ग'
Jain Education Internal
For Private & Personal Use Only
d
ww.jainelibrary.org