SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Jain Education अभ्यर्थनायां मरुको बटुः । यथा सोऽभ्यर्थनां विना दानक्षणे जनगृहेष्वगच्छन् दरिद्रीभूतः तथाऽभ्यर्थनां विनां वैयावृत्यमकुर्व्वन्निर्जराहीनः स्यात् । तथा यो गुरुणा वैयावृत्यं कुर्विति नोदितो गुरोरपि तदेव वक्ति स वानरोपमः । यथा वानरो वृष्टया कम्पमानो नीडस्थया सुगृह्या गृहं किं न करोषीत्युक्तो रुष्टस्तनीडं बभञ्ज । 'गुरुकरणे' तु गुरुः स्वयमेव वैयावृत्त्यं किं न करोतीति गुरुकरणे । 'वाणि ०' एको वणिक्कार्पण्यात्प्रावृषि स्वयं गृहं छादयन् लाभाद्भ्रष्टो द्वितीयो मौल्येनान्यैश्छादयंस्तद्दिने व्यवसायबाहुल्याद् बहुला भवान् जातः । एवं गुरुः स्वयं वैयावृत्यं कुवन् प्रतिबोधादिलाभाद् भ्रश्यत्यन्यैस्तु कारयन् ज्ञानदा - नादिलाभवान् स्यात् || ६८१ ।। अत्रार्थे पुनर्दोषानाह ' सुत्तत्थेसु अचिन्तन आएसे वुढसेहगगिलाणे । बाले खमइ वाई अड्डिीय ' । १ । यद्याचार्यः स्वयं वैयावृत्यं कुर्यात् तदा सूत्रार्थयोरचिन्तना स्यात् । आदेशे प्राघुणके वृद्धशैक्षग्लाने क्षपके चान्नपानादिअचिन्तना स्यात् । व्यालोऽहिस्तद्दष्टे साधौ औषधादिसारा न स्यात् । वादिनि ऋद्धिमति राजादौ चागते, आकारो लाक्ष० पानकाद्यर्थं गते गुरौ अनृद्धिर्लघुत्वं च । ' एएहिं कारणेहिं तुंबभूओ उ होति आयारिओ | वेयावच्चं ण करे कायव्वं तस्स सेसेहिं ' । २ । तुम्बं चक्रनाभिः तद्भूतस्तत्समो वैयावृत्र्यं न कुर्यात् । ' जेण कुलं आयतं तं पुरिसं आयरेण रश्केजा । न हु तुंबंमि विणट्टे अरया साहारया होति' । ३ । यस्य कुलं मुनिवृन्दं, षष्ठ्यार्थे तृतीया, आयतं वश अरकाः साधारकाः समानाधारकास्तुम्बवदाधारकृत इत्यर्थः । ' संज संजोए अब्भुट्ठियस्स, सद्धाए काउकामस्स । लाभो चैव तवस्तिस्स, होइ अद्दीणमणसस्स ॥ ६८२ ॥ वैयावृत्ये भिक्षायां अन्यसाधुकृतेऽभ्युत्थितस्य उद्यतस्य श्रद्धया कर्तुकामस्य तपस्विनोऽलामेऽप्यदीनमनसो निर्जराया २२ For Private & Personal Use Only इच्छाकार द्वारम् ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy