SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्ति- दीपिका ॥ ॥१२३॥ ज्ञातजे श्रीवीरे जीवति नव जना गणधराः परिनिर्वृताः सिद्धाः ॥ ६५९ ॥ द्वार १० । 'मासं' द्रव्यकालमासं पाओवगया, सवेऽविय सबलद्धिसंपण्णा। वज्जरिसहसंघयणा, समचउरंसा य संठाणा॥६६०॥ द्वारम् ॥ ____ मासं यावत्पादपोपगमं गताः संस्थाने संस्थानविषये ॥ ६६० ॥ द्वार ११ । एवं सामायिकसूत्रार्थप्रणेत्रहद्गणभृन्निर्गम || उक्तः । एवं च ' उद्देसे निद्देसे निग्गमे' इति गाथायां जीवद्रव्यनिर्गमद्वारं व्याख्यातं । अथ 'खित्तकालपुरिसे य' इत्यादिद्वाराणां व्याख्या। तत्र क्रमागतं सामायिकनिर्गमक्षेत्रद्वारमल्पत्वादुल्लङ्घचौकादशधा तन्निर्गमकालद्वारमाह । तत्र नामस्थापनाकालौ सुगमत्वान्नोक्तौ 'दग्वे' दवे अद्ध अहाउय, उवक्कमे देसकालकाले य । तह य पमाणे वण्णे, भावे पगयं तु भावेणं ॥६६१॥ द्रव्येऽद्धाया यथाऽऽयुषि उपक्रमे देशकाले काले च तथैव प्रमाणे वर्णे भावे च कालः स्यात् । तत्र भावेन भावकालेन क्षायिकभावलक्षणेन प्रकृतमधिकारः । यतः क्षायिके भावेऽर्हता सामायिकं प्रकाशितं । तथा प्रमाणकालेन च यत आद्यपौ- | रुपीरूपे प्रमाणकालेऽर्हता सामायिकमुपदिष्टं । द्वारगाथा ॥ ६६१ ।। क्रमेणाह ' चेय' चेयणमचेयणस्स व दवस्स ठिइ उ जा चउवियप्पा।सा होइ दवकालो, अहवा दवियं तु तं चेव ॥६६२० ___ ज्ञभव्यशरीरातिरिक्तो द्रव्यकालः चेतनं द्रव्यं जीवः अचेतनं चाजीवः तयोः स्थितिश्चतुर्विकल्पा अनन्तरगाथायां वक्ष्यते । स द्रव्यकालः, अथवा तद्रव्यमेव कालो द्रव्यकालः कालाख्यं द्रव्यमित्यर्थः ॥ ६६२॥'गइ ॥१२३॥ Jain Education Inter For Private & Personal Use Only O ww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy