SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ गणधरवादः॥ गच्छति' । यज्ञ एवायुधं, तद्विद्यते यस्य स तथाञ्जसा न्यायेन, तथा 'अपाम् सोमं, अमृता अभूम, अगमन् ज्योतिरविदाम देवान् किं नूनमस्मांस्तृणवदरातिः, किं धूर्तिरमृतमय॑स्य, अपाम-पीतवन्तः, सोम-लतारसं, अमृता-अमरणधर्माणः, अभूम| भूताः स्म, अगमन्-गताः, ज्योतिः-स्वर्ग । अविदाम देवान्-देवत्वं प्राप्ताः स्मः । किं नूनमस्मान् तृणवत् करिष्यति, अराति ाधिः । किं प्रश्ने, धूर्तिर्जरा अमृतमय॑स्यामृतत्वं प्राप्तस्य मर्त्यस्य, कोऽर्थः ? अमरणधर्मिणो मनुष्यस्य किं कुर्युधियः? अमूनि देवास्तित्ववाचीनि । तथा — को जानाति ? मायोपमान् गीर्वार्णान् इन्द्रयमवरुणकुबेरादीन् ' । एतद्देवासत्त्ववाचि । अत्राहनाह-अस्यार्थोऽयं-इन्द्रादीन् मायोपमान को जानाति ? इन्द्रादीनामप्यद्धिर्मायोपमेति को वेत्ति ? अपि तु न वेत्तीत्यर्थः। संति निर्माया देवाः सम्यक् प्रमेयत्वात् सत्यचन्द्रादिवत् । 'नारको वै एष जायते यः शुद्रान्नमश्नाति' एतन्नारकास्तित्ववाचि, 'न ह वै प्रेत्य नरके नारकाः सन्ति' इति नास्तित्ववाचि च । ततस्ते संशयः, परं अस्यार्थोऽयं-न खलु प्रेत्य परलोके मेर्वादिवच्छाश्वताः केऽपि नारकाः सन्ति । किन्तु इहाहःकर्ता नारकः स्यात् । ८। अस्ति कर्मणां गाढोऽशुभानुभागो विपाकवत्त्वात् विषवृक्षवत्। यश्चात्यन्तोऽशुभोऽनुभागः स भूर्लोकवासिनारकणामेव, औदारिकदेहेन महावेदनानुभवाभावस्याऽऽगोपं ज्ञातत्वात् । नवमगणभृत्सन्देहवेदपदादि द्वितीयगणभृद्वत् । ९| पुण्यपापे स्त एव शुभाशुभरसत्वात् फलवत् । दशमश्चाद्यगणभृद्वत् । अस्ति परलोक इहलोकस्यान्यथानुपपत्तेः तत्पूर्वजवत् । १० । 'जरामयं वा एतत्सर्व यदग्निहोत्रं ' तवार्थोऽयं यदेतदग्निहोत्रं तत्सर्व जरामर्यमेव यावजीवं कार्यमिति' अग्निहोत्रक्रिया च भूतवधहेतुत्वात् शबलरूपा, सा च स्वर्गफलैव स्यात् | न मोक्षफला, यावज्जीवमिति चोक्ते कालान्तरं नास्ति यस्मिन् मोक्षहेतुक्रियारम्भः, ततः साधनाभावान्नास्ति मोक्षः, परमेत Jan Education int ell For Private & Personal Use Only Jwww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy