________________
आवश्यकनियुक्तिदीपिका ॥
गणधरवादः॥
॥११९॥
'सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि यं पश्यति धीरा यतयः संयतात्मान' इति जीवस्य देहाद्भिन्नताज्ञापनापराणि, अत्र ज्ञानस्य भूतेष्वसत्वात्तेषु सत्स्वपि विनाशदर्शनाच्च भूतधर्मत्वाऽसिद्धौ, आत्मनि च ज्ञानवत्वेनात्मधर्मवत्वे सिद्धे सिद्ध एवात्मा देहादन्यः, जीवादन्यो बाह्यदेहः । अयुतत्वेन सम्बद्धत्वाद्गवाक्षनृवत् ३। 'स्वमोपमं वै सकलं इत्येष ब्रह्मविधिरजसा विज्ञेयः' एतत्पदं त्वन्मतो भूतनास्तित्वपरं किन्तु नैवं, इदं हि संयोगानित्यत्वज्ञप्त्यर्थमेव ज्ञेयं न तु पश्चभूतनास्तित्वार्थ, तथा 'पृथिवी देवता आपो वै देवते 'त्यादिवाक्यानि सत्तापराण्येव ज्ञेयानि । सन्ति प्रथिव्यादीनि सम्यग् ज्ञायमानत्वावन्मतिवत् ४ ।' पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वं ' इदं वेदपदं प्रायिकोक्त्या ज्ञेयं न तु नियमात् , 'शगालो वै जायते यः सपुरीपो दह्यते' एतद्वेदपदं परभववैसदृश्यज्ञापकं। नैकरूप एवात्मा भवान्तरे परवशत्वात् घटाकाशा| दिवत् । ५। ' स एष विगुणो विभुर्न बध्यते संसरति वा, न मुच्यते मोचयति वा, न वा एष बाह्यमभ्यन्तरं वा वेद' । तवायमाशयः-विगुणः सत्त्वादिगुणरहितः न वा एष आत्मा बाह्यं स्वतो भिन्नं महदहङ्कारादि अभ्यन्तरस्वरूपमेव वेद वेत्ति प्रकृतिधर्मत्वात् ज्ञानस्य प्रकृतेश्वाचेतनत्वाद् बन्धमोक्षाघटना, शेषं स्पष्टं । तत्र नैतद्वन्धमोक्षाभाववाचकं किन्तु सिद्धस्वरूपवाचि । तत्र विगताछामस्थिका ज्ञानादयो गुणा यस्य स विगुण बाह्य स्रकचन्दनादि, आभ्यन्तरमाभिमानिकादि सुखमनुभवात्मना वेत्ति । तथा 'नह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति' अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः, नह वै नैववचो निश्चये, अशरीरं सन्तं, एतद्वन्धमोक्षस्थापकं, भविकजीवः कर्मणा बध्यते रागादिमत्वान्यथानुपपत्तेः व्यतिरेके सिद्धवत , तथा जीवात्कर्म वियुज्यते मूर्तत्वे सत्यविभागसम्बद्धत्वात् स्वर्णमलव ६। स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्ग
-
-
Jain Education Inter
For Private & Personal use only
Jwww.jainelibrary.org