SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तिदीपिका ॥ ॥११६॥ किं मान्न अस्थि जीवो, उआहु नत्थित्तिसंसओतुज्झ। वेयपयाण य अत्थं, न याणसी तेसिमो अत्थो॥ गणधरकिं मन्ये,जानामि उताहो वितर्के, संशयो विरुद्धवेदपदोत्थः, वेदपदानां अर्थ, चशब्दाद्युक्तितचं च न जानासि, वेदपदानि वादः॥ चामृनि 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्ति' त्वमेषां अर्थमेवं वेत्सि विज्ञानघनचैतन्यपिण्ड स एवैतेभ्यो भूतेभ्यः पृथ्व्यादिभ्यः समुत्थायोत्पद्य तान्येव विनश्यन्त्यनु पश्चाद्विनश्यति, प्रेत्य मृत्वा परलोकसंज्ञा नास्ति, अतो नास्ति परभवगो जीवः किन्तु ज्ञानमेव भृतेभ्यो दीपवदुत्पद्य तन्नाशे नश्यति । प्रयोगश्च-ज्ञानं नान्यभवगं भौतिकत्वात् दीपवत्, प्रत्यक्षादिमिश्चात्मा न ज्ञायत इति नास्ति । तथा 'सवै अयमात्मा ज्ञानमय' इत्यादिषु तूक्तोऽतस्तत्सन्देहः, परमस्त्येवात्मा योगिमिः प्रत्यक्षेणोपलभ्यमानत्वादणुवत् , अनुमानादपि अस्त्यात्मा शुद्धपदवाच्यत्वाद् घटवत् , आगमश्चेत्थं व्याख्येयः तेसिमो अत्थी' तेषां वेदपदानामयं अर्थः, विज्ञानं ज्ञानदर्शनरूपं ततोऽनन्यत्वादात्मा विज्ञानघनः | स एवैतेभ्यो भूतेभ्य इति, भूतानि घटादीनि, तेभ्यो ज्ञेयत्वेनोपगतेभ्यः समुत्थाय 'घटोऽयं घटोऽयं ' इत्यादिघटादिज्ञातृपर्यायेणोत्पद्य तान्येवान्यमनस्कत्वेनार्थान्तरोपयोगे सति ज्ञेयत्वेन विनश्यन्त्यनु पश्चात्तबोधपर्यायेण विनश्यति न प्रेत्यसंज्ञाऽस्ति प्राक्तनीज्ञानसंज्ञा नास्ति । कोर्थः घटोपयोगनिवृत्तौ पटोपयोगः स्यात् , पटोपयोगे घटोपयोगो नास्ति निवृत्तत्वात् ॥६०१ । 'छिण्ण' छिण्णमि संसयंमी, जिणेण जरमरणविप्पमुक्केणं। सोसमणो पव्वइओ, पंचहि सह खंडियसएहि ॥ MIRR१६॥ Jain Education Inter For Private & Personal Use Only www.janelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy