SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीवीरस्य तपः॥ 'एत्थं ' अत्रोक्ते वैशाखसुदि दशम्यन्तेऽहर्गणे प्रथमं प्रव्रज्यादिवसं प्रक्षिप्य संकलिते सति यदेकरूपं लब्धं तन्निशा- मयत ॥ ५३७॥'बार' वारस चेव य वासा, मासा छच्चेव अद्धमासोय। वीरवरस्स भगवओ, एसो छउमत्थपरियाओ॥५३८॥ ___ अस्मिन्नहर्गणे ४५१५ रूपे ३६० रूपवर्षदिनाङ्केन भक्ते द्वादशवर्षादिसङ्ख्या स्पष्टैव । परं श्रीवीरस्य मार्ग वदि १० दीक्षा, वैशाख सुदि १० ज्ञानं । अत्रान्तरे द्वादशवर्षादिसङ्ख्यायां कथितायामेको मासस्त्रयति । तत्रायं समाधिर्घटते । षष्ठयुगस्य पर्यन्ताभिवतिवर्षे मार्ग वदि १० प्रभोर्दीक्षा ततस्तद्वर्षस्य शेषं आषाढद्वयगणनया मास ८ दिन २०, ततः परं युगद्वयेन १० वर्षाणि पूर्णान्येव विवक्षितानि, तदनु द्वितीयचन्द्रवर्षे वैशाख सुदि १० ज्ञानोत्पत्तिः । अस्य च पूरणाय दीक्षावर्षसत्कस्याधिकमासाष्टकस्य मध्यान्मासद्विकं दिनपञ्चाधिकं प्रक्षिप्यते इति । यदा तु प्रतिदिनगणना क्रियते तदा पञ्चाधिकमासकाः स्युस्तन्मध्यात्साई मासद्वयमचरमरात्रिपदे क्षिप्यते, शेषं सार्द्ध मासद्वयं, तन्मध्यान्मासो गाथार्थपूरणाय क्षिप्यते, शेषं सार्द्धमासं । तत्र च 'छडेणं एगया भुंजे अट्ठमेणं दसमेणं दुवालसगेणं एगया भुंजे पेहमाणे समाहिपडिबन्ने' इत्याचाराङ्गोपधानश्रुताध्ययनोक्तानि तपांसि भगवतः सम्भाव्यन्ते । तानि चावश्यके स्वल्पविप्रकीर्णतपस्त्वादिना केनापि हेतुना न विवक्षितानि ।। ५३८ ॥ एवं' . एवं तवोगुणरओ, अणुपुत्वेणं मुणी विहरमाणो । घोरं परीसहचमुं, अहियासित्ता महावीरो॥ ५३९ ॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy