________________
श्री वीरस्योप
सर्गाः।
त्वच्छिष्योऽर्हन् मौनोऽस्थात् । द्वितीये मासपारणे आनन्दः खाद्यानि, तृतीये सुनन्दः कामगुणं मनोहारि भोज्यं ददौ | ॥ ४७४ ॥ 'कुल्ला' कुल्लाग बहुल पायस, दिव्वा गोसाल दछु पव्वजा। बाहिं सुवण्णखलए,पायसथाली नियइगहणं॥४७॥ ___ ततः स्वामी तुर्यमासपारणे कोल्लाकसंनिवेशं गतस्तत्र बहुलो द्विजः पायसं ददौ । दिव्यानि जातानि । गोशालः प्रभुमपश्यन् मुक्तोपकरणो मुण्डो भृत्वा प्रभुं सर्वत्रेक्षमाणस्तत्रागतः प्रभुं दृष्ट्वा, स्वयमेव प्रत्रज्या मेऽस्त्वित्युक्त्वाऽर्हता सह यान् स्वर्णखलादहिगोपान् पायसं राध्नतो वीक्ष्याहन्तमाह-भुज्यतेत्र, सिद्धार्थेन तु स्थाली भक्ष्यते इत्युक्ते गोशालो गोपान् स्थाली रक्षेत्यूचे तै रक्ष्यमाणापि भग्ना, भाव्यं स्यादेवेति गोशालस्य नियतेस्रहणं ।। ४७५ ॥ 'बंभ' बंभणगामे नंदोवनंद उवणंद तेय पञ्चद्धे । चंपा दुमासखमणे, वासावासं मुणी खमइ ॥ ४७६ ॥ ___ ततो ब्राह्मणग्रामे स्वामी गतस्तत्र नन्दोपनन्दौ बन्धू भिन्नपाटकेशौ, अन्नन्देन प्रत्यलाभि। गोशालो ग्रामप्रत्यर्द्ध द्वितीयार्द्ध | उपनन्दगृहे शीतलान्नमनिच्छन् दास्या शीर्षेऽन्ने क्षिप्ते 'तेय'त्ति चेन्मद्धर्मगुरोस्तपस्तेजस्ततस्तद्गृहं दह्यतां इति जगौ।। आसन्नस्थसम्यग्दृग्व्यन्तरैर्दग्धं । चम्पायां तृतीयं अर्हन द्विमासक्षपणेन क्षपयति ।। ४७६ ।। 'काला' कालाए सुवण्णगारे, सीहो विज्जुमई गोहिदासी य।खंदोदन्तिलियाए,पत्तालग सुण्णगारंमि॥४७७॥
कालायसंनिवेशे प्रभुः शून्यागारे प्रतिमयाऽस्थात् , गोशालो द्वारेऽस्थात् सिंहो ग्रामकूटसुतो निशि तत्र विद्युन्मती गोष्ठी
For Private & Personal Use Only
www.jainelibrary.org
Jain Education inte