SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ ९५ ॥ Jain Education Intern संग मजूय' इत्यर्थः । एवं शेषा अपि क्रमात् स्वपत्न्यां हतायां स्त्रीहर्तुर्वधाय ४ रणे पराजयेन वैविधाय ५ भार्यायां हतायां प्रियाहर्तृवधाय ६ तथा राजाङ्गजो गोठ्यां राजसभायां मन्त्रिणा राज्ययोग्यत्वे ज्ञापिते राज्ञोऽपमाने जाते मन्त्रिवधाय । ७ । पुनवर्सुः खेचरस्त्रिभुवनानन्दचक्रिणः सुतां हृत्वा व्रजन् चक्रिप्रेषितैर्भेटैर्युद्धमानः कन्यायां हस्ताद् भुवि पतितायां विषण्णश्चक्रिणः ऋद्धिं सबलां महतीं ज्ञात्वा प्रव्रज्य भवान्तरेऽस्याः पतिर्भवेयमिति । ८ । श्रेष्ठिसुतो मातुरपमानाञ्जनवलभो भूयांसमिति निदानं । ९ । 'महसुका' महाशुक्रात् १ प्राणतात् २ लान्तकात् त्रिषष्टावच्युतात् ३ सहस्रारात् ४ माहेन्द्रात् त्रिषष्टावीशानात् ५ ब्रह्मलोकात् त्रिषष्टौ माहेन्द्रात् ६ सौधर्मात् ७ सनत्कुमारतः ८ महाशुक्राच्च्युताः केशवा जाताः । 'तिने' त्रयो बला अनुत्तरेभ्यस्त्रयो महाशुक्रात् अवशेषा ब्रह्मलोकाच्युता अनन्तरमेव बलदेवा अभवन् । एतयोर्नानुक्रमेण प्राग्भवः किन्तु सामान्योक्या, एवं क्षेपकगाथाः १४ सर्वगाथा ३५ इति द्वितीया वरवरिका । ( ग्रन्थाग्र ४५० ) । ' बहि ' बहिआ य णायसंडे, आपुच्छित्ताण नायए सव्वे । दिवसे मुहुत्त सेसे, कुमारगामं समणुपत्तो ॥ १११ ॥ कुण्डपुराद्बहिर्ज्ञातखण्डे वने सर्वान् समीपस्थान् ज्ञातकान् स्वजनानापृच्छय प्रस्थितो मुहूर्त्तशेषे दिवसे कुमारग्राममनुप्राप्तः । ग्रामाद्बहिः प्रतिमयाऽस्थात्तत्र च गोपो वृषौ ग्रामासने चरन्तौ मुक्त्वा ग्रामान्तर्गत्वा आयाती वृषावपश्यन् व मे वृपाविति पृच्छन् प्रभौ मौनस्थे न वेच्येष इत्यन्यत्रान्विष्य पुनस्तत्रागतो निविष्टौ वृषौ वीक्ष्यानेनैव हृतावभूतामिति दामोपाट्य धावितः ॥ १११ ॥ ततः 'गोव For Private & Personal Use Only श्रीवीरस्योपसर्गाः ॥ । ।। ९५ ।। www.jainelibrary.org.
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy