SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिदीपिका॥ भरतस्वामिवात्सल्यम्॥ ॥७६॥ प्रभोरष्टापदे समवसरणं, चक्री च भ्रातृदीक्षया दुःखितो भ्रातृन् भोगैनिमन्त्रयन्नर्हता निषिद्धः। शकटैः ‘भत्त 'त्ति भक्तमानिन्य सदोषत्वाद्भक्ते निषिद्धे तं शोचन्तं वीक्ष्येन्द्रः 'उग्गह'त्ति अवग्रहं अपृज्छत् । प्रभुणा च देवेन्द्रायवग्रहेषूक्तेष्विन्द्रो नत्वा स्वावग्रहं साधूनां अनुजानामीत्याख्यत्, चक्रयपि स्वावग्रहं अनुनाय 'सक्कत्ति शक्रं पप्रच्छाऽनेनानेन किं कार्य ? शक्रेण गुणाधिकानचयेत्युक्ते आलोच्य 'सावगा' विरताः श्रावका अधिका इति ज्ञात्वा । 'अंगुल'त्ति मुख्यरूपं दर्शयेत्युक्ते शक्रेण चक्रिणो मुख्यरूपाङ्गुलिर्दर्शिता । स तदष्टाहिकोत्सवमकरोत्ततः 'ज्ञय'त्ति इन्द्रध्वजोत्सवः प्रवृत्तः । अत्र व्यत्ययः प्राकृतत्वात् । चक्री श्राद्धानाकार्य भवद्भिर्मद्गृहे भोज्यं स्वाध्यायपरैश्च भाव्यं, भुक्तैश्च 'जेआ' जितो भवान्, वर्द्धते भयं, तस्मान्मा हन मा हन इति वाच्यं । भोक्तृप्राचुर्यात्सूपकारेषु पाकाक्षमेषु श्राद्धानां हृदि काकिण्या रेखारूपं लाञ्छनं चके । अष्टपुरुषान् जिनान्वा यावदनुसर्जनेत्थं धर्मप्रवृत्तिः। तत्रादित्ययशसा रेखास्थाने स्वर्णोपवीतं कृतं । शेषैस्तु रूप्यपट्टसूत्रोपवीतानि कृतान्येवमुपवीतप्रसिद्धिः । अष्ट पुरुषाः ॥ २६२ ॥ ' राया' राया आइच्चजसो, महाजसे अइबले अबलभद्दे । बलविरिए कत्तविरिए, जलविरिए दंडविरिए य ॥३६३॥ कार्तवीर्यः ॥ २६३ ॥ 'एए' एएहिं अद्धभरहं, सयलं भुत्तं सिरेण धरिओ अ। पवरो जिणिंदमउडो, सेसेहिं न चाइओ वोढुं ॥३६४।। शिरसा धृतः जिनसत्कमुकुटः य इन्द्रेण ऋषभस्य राज्यकाले शिरसि दत्तोऽभूत्ततो भरतेन 'धृतः 'न चाईओ' न शक्तः ॥ ६ ॥ Jain Education Intern For Private & Personal use only Twww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy