SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका॥ सम्बोधनद्वारम् ॥ अर्हता सम्बोधनं १ परित्यागः २ प्रत्येकं ३ उपधिः ४ प्राकृतत्वाद्विभक्तिव्यत्ययः, अन्यलिङ्ग कुलिङ्गे वार्हन्तो न दीक्षिता इति द्वारं ५ ग्राम्याचारः ६ परीषहाः ७ जीवादितत्त्वोपलम्भः ८ प्राग्भवश्रुतलाभः ९ प्रत्याख्यानं १० संयमः ११ छद्मस्थकाल: १२ तपःकर्म १३ ज्ञानोत्पत्तिः१४ साधुसाध्वीसङ्ग्रहः १५ तीर्थ १६ गणाः १७ गणधराः १८ धर्मोपायस्य देशकाः १९ पर्यायकालः २० अन्तक्रिया मुक्तिः कस्य केन तपसा जाता २१ इति द्वाराणि वाच्यानि ॥ २०९-१०-११ ॥ अथायद्वारचतुष्कस्य स्पष्टनाय गाथाद्वयं ' सवे' 'रजा' सत्वेऽवि सयंबुद्धा, लोगन्तिअबोहिआ य जीएणं १। सव्वेसिं परिच्चाओ, संवच्छरिअंमहादाणं ॥२१२॥ रज्जाइच्चाओऽवि य २ पत्तेअंको व कत्तिअसमग्गो ३। को कस्सुवही? को वाऽणुण्णाओ केण सीसाणं सर्वेऽर्हन्तः स्वयंबुद्धा लोकान्तिकबोधिताश्चेति जीतं आचार इति तत्सम्बोधनं वाच्यं १ । सर्वेषां परित्यागः सांवत्सरिकं दानं राज्यादित्यागोऽपि चेति परित्यागद्वारं २ को वा कियत्समग्रः कियत्सहितो दीक्षित इति प्रत्येकद्वारं ३ कः कस्योपधिः को वा केन शिष्याणामनुज्ञात इत्युपधिद्वारं ४ ॥२१२-१३ ।। आद्यद्वारमाह 'सार' सारस्सय १ माइच्चा २ वही ३ वरुणा ४ य गद्दतोया ५। - तुसिआ ६ अव्वाबाहा ७ अग्गिच्चा ८ चेव रिट्ठा ९ य ॥ २१४ ॥ सारस्वताः १ आदित्याः २ वह्नयः ३ अरुणाः ४ मोऽलाक्षणिकः, गर्दतोयाः ५ तुषिताः ६ अव्यायाधाः ७ अग्नयः ॥१॥ Jain Education Inteme For Private & Personal use only raww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy