SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आसीअ पाणिधंसी,तिम्मिअतंदुलपवालपुडभोई। हत्थतलपुडाहारा, जइआ किर कुलकरो उसहो ॥ आहार___ यदा किल ऋषभः कुलकरस्तदा लोकाः पाणिभ्यामन्नं घर्षन्तीत्येवंशीलाः पाणिघर्षिणः । तथाप्यजीर्यमाणे तीमितान् । द्वारम् ॥ तंदुलान् धान्यानि प्रवालपुटे भोक्तुं शीलं येषां ते तीमिततंदुलप्रवालपुटभोजिनः ततोऽप्यजीर्यमाणे हस्ततलद्वयमिलनं पुटस्तत्र | मुहूर्त स्थापयित्वा आहारो येषां ते, ततः कक्षासु संस्वेयेत्यनुक्तमपि । अत्र व्यादियोगैर्भुक्तवन्तः, यथा पाणिभ्यां धृष्ट्वा पत्रपुटे च तीमित्वा १ पाणिभ्यां घृष्ट्वा हस्ततलपुटे धृत्वा, पुटे तीमित्वा कक्षासु संस्वेद्य । अथ त्रियोगः, पाणिभ्यां घृष्ट्वा पत्रपटे तीमित्वा हस्तपुटे धृत्वा, चतुर्योगः पाणिभ्यां घृष्ट्वा हस्ततलपुटे धृत्वा पुटे तीमित्वा कक्षासु संस्वेद्य ॥८॥ अत एवाह-'घंसे' घसेऊणं तिम्मण, घंसणतिम्मणपवालपुडभोई। घसणतिम्मपवाले, हत्थउडे कक्खसेए य ॥९॥ | घृष्ट्वा तीमनं चक्रुरिति प्रत्येकभङ्गाक्षेपः। घृष्टप्रवालपुटतीमितभुज इति द्वियोगः, घृष्ट्वा प्रवाले तीमित्वा हस्तपुटे संस्थाप्य भुक्तास्त्रियोगः, कक्षास्वेदोक्त्या चतुर्योगाक्षेपः ॥ ९ ॥ ' अग' अगणिस्स य उट्ठाणं, दुमधंसा दव भीअपरिकहणं। पासेसुं परिछिंदह, गिण्हह पागं च तो कुणह॥१०॥ ___ नह्येकान्तस्निग्धरूक्षकालयोरग्निः स्यात् किन्तु मध्यमकाल एवेत्यर्हन् जाननग्न्युत्पत्त्युपायं प्राग नाख्यत् । द्रुमघर्षादग्न्युत्थानं दृष्ट्वा युग्मिनो भीत्वा प्रभोः परिकथनं चक्रुः । अर्हन्नाह-पार्श्वेषु तृणानि परि समन्तात् छेदयत । ततो हस्त्यश्वैः सर्व तृणं मिलितं, अग्नौ शान्तेऽवक् गृहीताग्निं पाकं च कुरुत ॥ १० ॥ 'पक्खे' Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy