________________
नाग ४
एकोनत्रिंशत्. देवानां पंच तावदेतान्येव, षष्टं तु त्रिंशत, सा च नद्योतवेदकानामवगंतव्या. एकैकस्मिन हे सत्तास्थाने, हिनवतिरष्टाशीतिश्च. मनुष्यगतिप्रायोग्यां त्रिंशतमविरतसम्यग्दृष्टयो देवा नैरयिकाश्च बध्नति. तत्र देवानामुदयस्थानानि षट् . तानि चानंतरोक्तान्येव, तेषु प्रत्येकं सत्तास्थाने, तद्यथा-विनवतिरेकोननवतिश्च. नैरयिकाणामुदयस्थानानि पंच, तेषु प्रत्येकं सत्तास्थानमेकोननवतिरेव. तीर्थकराहारकसत्कर्मणो नरकेषूत्पादानावात्.
तदेवं सामान्येन एकविंशत्यादिषु त्रिंशत्पर्यंतेषूदयस्थानेषु सत्तास्थानानि प्रत्येकं चत्वार, तद्यथा-त्रिनवतिहिनवतिरेकोननवतिरष्टाशीतिश्च. एकत्रिंशऽदये थे, हिनवतिरष्टाशीतिश्च. सर्वसंख्यया त्रिंशत्. संप्रति देशविरतबंधादिस्थामान्युज्यंते-देशविरतस्य हे बंधस्थाने,
तद्यथा-अष्टाविंशतिरेकोनत्रिंशत्. तत्राष्टाविंशतिर्मनुष्यस्य तिर्यपंचेंशियस्य वा देशविरया तस्य देवगतिप्रायोग्य बनतो वेदितव्या. तत्राष्टौ नंगाः, सैव तीर्थकरनामसहिता एकोनत्रिं-
शत, सा च मनुष्यस्यैव, तिरश्चां तीर्थकरनामकर्मबंधानावात्. अत्राप्यष्टौ नंगाः, षट् नदय- स्थानानि, तद्यथा-पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एक
॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org