________________
पंचसं०
टीका
॥१३८णा
दशोत्तरं (५०३१५) एतावत्युपयोग गुणितानि नृदयपदानि संप्रति लेश्यागुलिता नदयजंगा उदयपदानि च जाव्यंते - तत्र मिथ्यादृष्ट्यादिष्वविरतसम्यग्यष्टिपर्यंतेषु प्रत्येकं षट् लेश्याः, देशविरतप्रमत्ताप्रमत्तेषु तु तेजःपन्नशुक्लरूपास्तिस्रस्तिस्त्रः, कृष्णादिलेश्यासु देशविरत्यादि प्रतिपत्तेरभावात्. अपूर्वकरणादौ चैका शुक्ललेश्या. मिथ्यादृष्ट्यादिषु चाष्टचतुरादिकाश्चतुर्विं शतयो यथायोगं लेश्यानिर्गुण्यं तद्यथा
मिथ्यादृष्टेरष्टौ, सासादनस्य चतस्रः, सम्यग्मिथ्यादृष्टेश्चतस्रः, अविरत सम्यग्दृष्टेरष्टौं, मिलिताश्चतुर्विंशतिः, सा पत्रिर्लेश्यानिर्गुण्यते, जातं चतुश्चत्वारिंशंशतं ( १४४ ) तथा देशविरतस्याष्टौ, प्रमत्तस्याष्टौ, सर्वसंख्यया चतुर्विंशतिः, सा विनिर्लेश्या निर्गुण्यते, जाता ह सप्ततिः पूर्वकरणे चतस्रश्चतुर्विद्यातयः, अवैकैव लेश्या, एकेन च गुणितं तदेव जव सर्वमिलिता दे शते विंशत्यधिके ( २२० ) ते चतुर्विंशत्या गुण्यंते, जातान्यशीत्यधिकानि हिपंचाशत्रुतानि ( ५२८० ) ततो द्विकोदया द्वादश, एकोदयाः पंच, मिलिताः सप्तदश, ते पूर्वराशौ प्रक्षिप्यते ततो जातानि सप्तनवत्यधिकानि द्विपंचाशच्छतानि ( ५२१ ) एतावं
Jain Education International
For Private & Personal Use Only
नाग
॥ १३८०
www.jainelibrary.org