________________
पंच सं०
टीका
| १२७० ॥
वलिकामात्रं कालं यावत् अनंतानुबंध्युदयरहितः प्राप्यते, नान्यः, स चाष्टाविंशतिसत्कर्मेति, सप्तोदये सत्तास्थानमष्टाविंशतिरेव शेषेषु तूदयेष्वष्टनवदशकरूपेषु षडूविंशतिः, सप्तविंशतिः, चशब्दादष्टाविंशतिवेति त्रीणि त्रीणि सत्तास्थानानि भवंति तथाहि
दोहा, अनंतानुबंध्युदयर हितोऽनंतानुबंध्युदयसदितश्व तत्र योऽनंतानुबंध्युदयरहितस्तत्र प्रागुक्तयुक्तेरष्टाविंशतिरेव सत्तास्थानं अनंतानुबंध्युदयसदिते तु त्रीण्यपि सत्तास्थानानि तत्र यावन्नाद्यापि सम्यक्त्वमुद्दलयति तावदष्टाविंशतिः, सम्यक्त्वे नलिने सप्तविंशतिः, सम्यग्मिथ्यात्वेऽप्युलिते षड्विंशतिः, अनादिमिथ्यादृष्टेर्वा षडूविंशतिः एवं नवोदोऽपि दृष्टव्यः, दशोदयस्त्वनंतानुबंध्युदयसहित एवं जवतीति तत्रापि त्रीणि सत्तास्थानानिनावनीयानि. सासादने त्वेकविंशतिबंध के त्रिष्वपि सत्ताष्टनवकरूपेषूदयेष्वष्टाविंशतिरेवैकं सत्तास्थानं, तथाहि - सासादनत्वमौपशमिकसम्यक्त्वात्प्रच्यवमानस्योपजायते, सम्यक्त्वगुणेन च तेन मिथ्यात्वं द्विधा कृतं तद्यथा – सम्यक्त्वं सम्यग्मिथ्यात्वं चेति, ततो दर्शनत्रिकस्यापि सत्कर्मतया प्राप्यमाणत्वात् सासादने त्रिष्वष्टाविंशतिरवैकं सत्तास्थानं, एतच्च
Jain Education International
For Private & Personal Use Only
भाग
॥१२७० ]
www.jainelibrary.org