SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग। टीका १२५॥ का चतुन्निर्गुणिता जाता चतुर्विंशतिः, तस्मिन्नेव सप्तके नये वा जुगुप्सायां वा अनंतानुबंधिनि वा प्रक्षिप्ते अष्टानामुदयः, अत्र त्रयाणामादौ प्रत्येकमेकैका चतुर्विशतिः प्राप्यते, इति ति. सश्चतुर्विंशतयः, ननु मिथ्यादृष्टरवश्यमनंतानुबंधिनामुदयः सन्नवति, तत्कयमिह मिथ्याहष्टिः सप्तोदये अष्टोदये वा कस्मिंश्चिदनंतानुबंध्युदयरहितः प्राप्यते ? उच्यते इह सम्यग्दृष्टिना सता केनचित्प्रथमतोऽनतानुबंधिनो विसंयोजिताः, एतावतैव च स विश्रांतो, न मिथ्यात्वादिक्षयाय नद्युक्तवान्, तथाविधसामध्यनावात्. ततः कालांतरे मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययतो नूयोऽपि अनंतानुबंधिनो बधाति, ततो बंधावलिका यावन्नाद्याप्यतिक्रामति तावजुदयो न नवति. बंधावलिकायां त्वतिक्रांतायां नवेदपि. ननु कथं बंधावलिकातिक्रमेऽप्युदयः संनवति ? यतोऽवाधाकालये सत्युदयः, अबाधाकालश्चानंतानुबंधिनां जघन्यतातर्मुहूर्तमुत्कर्षतश्चत्वारि वर्षसहस्राणीति. नैष दोषः, यतो बंधसमयादारभ्य तेषां तावत्सना नवति, सत्तायां च सत्यां बंधकालं यावत्पतद्ग्रहता, पतद्ग्रहतायां च सत्यां शेषसमानजातीयप्रकृतिदलिकसंक्रांतिः, संक्रांतं च पतद्ग्रहप्रकृतिरूपतया परिणमते. ततः सं ॥१२५३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy