________________
पंचसं
टीका
!२११||
मयति. इह चोपशमन करणे स्त्रिया नपुंसकस्य च निजकोदयस्य स्ववेदोदयश्चिरमसमये एकामुदयस्थितिं मुक्त्वा शेषं सर्वमुपशांत, इवं च शमयित्वा स्त्रीनपुंसको वा पश्चात्सप्त पुरुवेदादिकाः प्रकृतीरुपशमयितुं यतते. इयमत्र जावना - इद स्त्री नृपशमश्रेणिं प्रतिपन्ना स ती प्रश्रमतो नपुंसक वेदमुपशमयति, पश्चात्स्त्रीवेदं तच्च तावदुपशमयति यावत्स्वोदयस्य ६चरमसमयः, तस्मिंश्च निजकोदयस्य विचरमसमये एकां चरमसमयमात्रामुदयस्थितिं च वर्जयित्वा शेषं सकलमपि स्त्रीवेदसत्कं दलिकमुपशमितं, ततश्वरमसमये गते सति वेदका सती पुरुषवेदहास्यादिषट्करूपाः सप्त प्रकृतीर्युगपदुपशमयितुमारभते. शेषं पुरुषवेदेन वा श्रेणिं प्रतिपन्नस्य दृष्टव्यं तथा स्त्रीवेदेन पुरुषवेदेन वा उपशमश्रेणिं प्रतिपद्यमानो यस्मिन् स्थाने नपुंसक वेदमुपशमयति, तद्दूरंयावन्नपुंसकवेदेन श्रेणिं प्रतिपन्नः सन् नपुंसक वेदमेव केवलमुपशमयति, तत ऊर्ध्वं नपुंसक वेदं स्त्रीवेदं युगपदुपशमयितुं लग्नः, स च तावतो यावन्नपुंसक वेदोदयाद्याया विचरमसमयः तस्मिंश्च समये स्त्रीवेद नृपशांतः, नपुंसक वेदस्य च एका उदयमात्रा नदयस्थितिर्वर्त्तते, शेषं सर्वमप्युपशांतं. तस्यामप्युदयस्थितावतिक्रांतायाम
Jain Education International
For Private & Personal Use Only
भाग ४
।। १३११॥
www.jainelibrary.org