________________
पंच सं०
टीका
॥१०२६||
ग्रहणं. मंदकषायो जघन्ययोगश्च सन् श्रन्नव्यप्रायोग्यजघन्यकल्पं प्रदेशसंचयं कृत्वा ' तोत्ति ' तेभ्यः सूक्ष्मनिगोदेभ्यो विनिर्गत्य योग्येषु सम्यक्त्व देश विरतिसर्वविरतियोग्येषु त्रसेषु मध्ये एति गति, आगत्य च पल्योपमासंख्येयनागमध्ये संख्यातीतान् वारान् यावत्सम्यक्त्वं तावत एव च वारान् किंचिदूनान् देशविरतिं च लब्ध्वा कथं लब्ध्वेतिचेडुच्यते
सूक्ष्म निगोदेो निर्गत्य बादरपृथिवी कायिकेषु मध्ये समुत्पन्नः, तततर्मुहूर्तेन कालेन विनिर्गत्य मनुष्येषु पूर्व कोट्यायुष्केषु मध्ये समुत्पन्नः, तत्रापि शीघ्रमेव माससप्तकानंतरं योनिर्गमनेन जातः, ततोऽष्टवार्षिकः सन् संयमं प्रतिपुत्रः, ततो देशोनां पूर्वकोटिं यावत्संममनुपालय स्तोकावशेषे जीविते सति मिथ्यात्वं प्रतिपन्नः, ततो मिथ्यात्वेनैव कालं ग तः सन् दशवर्षसहस्रप्रमाणस्थितिषु देवेषु मध्ये देवत्वेनोपजातः, ततोंतर्मुहूर्तमात्रे गते स ति सम्यक्त्वं प्रतिपद्यते, ततो दशवर्षसहस्राणि जीवित्वा तावंतं कालं च सम्यक्त्वमनुपालय पर्यवसानावसरे मिथ्यात्वेन कालं गतः सन् बादरपृथिवी कायिकेषु मध्ये समुत्पन्नः, ततोंतमुहूर्तेन ततोऽप्युत्य मनुष्येषु समुत्पद्यते, ततः पुनरपि सम्यक्त्वं वा देशविरतिं वा प्रतिप
Jain Education International
For Private & Personal Use Only
भाग ३
||१०२६ ॥
www.jainelibrary.org