________________
पंचसं
नाग ३
टीका
म
॥४६॥
शकीर्त्ययशकीर्त्यन्यतरलक्षणामष्टाविंशति बध्नतो घ्युत्तरशतसत्कर्मणो शुत्तरशतमष्टाविं- शतिपतद्ग्रहे संक्रामति..
तथा मनुष्यस्य तीर्थकरनामसत्कर्मणः पूर्वमेव नरके बहायुष्कस्य, ततो नरकानिमुखस्य सतो मिथ्यात्वं प्रपत्रस्य नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बभ्रतः परमवतिसत्कमणोऽष्टाविंशतिपतद्ग्रहे षमवतिः संक्रामति. यथा व्युत्तरशतस्य नावना कृता, तथा पंचनवतेरपि नावना कार्या. केवलं व्युत्तरशतस्थाने पंचनवतिरित्युच्चारणीयं. तथा मिथ्यादृष्टेस्त्रिनवतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बध्नतो वैक्रियसप्तकदेवगतिदेवानुपूवीणां बंधावलिकायाः परतो वर्तमानस्य विनवतिरष्टाविंशतौ संक्रामति. अथवा पंचनवतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बनतो देवगतिदेवानुपूर्योधावलिकाया अज्यंतरे वर्तमानस्य विनवतिरष्टाविंशतौ संक्रामति. अथवा विनवतिसत्कर्मणो मिथ्यादृष्टेन- रकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बध्नतो नरकगतिनरकानुपूर्वीवैक्रियसप्तकानां बंधावलिकायाः परतो वर्तमानस्य त्रिनवतिरष्टाविंशतौ संकामति.
॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org