________________
पंचसं०
टीका
॥ १२६ ॥
श्रेण्यसंख्येयज्ञागगतप्रदेशराशिप्रमाला जवंति तासां च समुदायः प्रथमं स्पर्धकं ततः प्राक्तनयोगस्थानप्रदर्शितप्रकारेण द्वितीयादीन्यपि स्पर्धकानि वाच्यानि तानि च तावद्वाच्यानि यावत् श्रेण्यसंख्येयजागगत प्रदेशराशिप्रमाणानि जवंति ततस्तेषां समुदायो द्वितीयं योगस्थानं. ततोऽन्यस्य जीवस्याऽधिकतमवीर्यस्योपदर्शितप्रकारेण तृतीयं योगस्थानं वाच्यं एवमन्यान्यजीवापेक्षया तावद्योगस्थानानि वाच्यानि यावत्सर्वोत्कृष्टं योगस्थानं जवति, तानि च सर्वाणि श्रेण्यसंख्येयजागगत प्रदेशराशिप्रमाणानि ननु जीवानामनंतत्वात्प्रतिजीवं च योगस्थानस्य प्राप्यमाणत्वादनंतानि योगस्थानानि प्राप्नुवंति कथमुच्यते श्रेण्यसंरूपेयजागगप्रदेशराशिप्रमाणानि इति ? नैष दोषः, यत एकैकस्मिन् योगस्थाने सदृशे सदृशे वर्तमा नाः स्थावरजीवा अनंताः प्राप्यते, ततः सर्वजीवापेक्षयापि सर्वाणि योगस्थानानि केव लिप्रया परिज्ञाव्यमानानि यथोक्तप्रमाणान्येव प्राप्यते, ततो नाधिकानीति कृता स्थानप्ररूपणा. सांप्रतमनंतरोपनिधावसरः, तत्र उपनिधानमुपनिधा, धातूनामनेकार्थत्वान्मार्गण मित्यथेः. अनंतरेणोप निधा अनंतरोपनिधा, अनंतरं योगस्थानमधिकृत्य नत्तरस्य योगस्थानस्य रूप
Jain Education International
For Private & Personal Use Only
नाग ३
॥ १२६ ॥
www.jainelibrary.org