________________
पंचसं
टीका
॥ ४३६ ॥
धोर्निरवद्याहारगवेषिणो निरवद्यस्याहारस्याऽलाने ईपल्लाने वा अनपगतक्षुछेदनस्य, अकालनिकांप्रति निवृत्तेवस्य श्रावश्यकपरिहालिं मनागप्यसहमानस्य, स्वाध्यायध्यानज्ञावनापरीतचेतसः, नदीर्णप्रबलक्षुनस्यापि सतोऽनेषणीयं परिहरतो यदपरिदेवनेन क्षुद्वेदना सहनं स कुत्रीहविजयः एवं पिपासापरीषद विजयोऽपि नावनीयः,
तथा तरुणतररविकिरण परितापशुष्कपतितपर्णव्यपेतच्वायतरुण्यटव्यंतरे अन्यत्र वा काविगतो निवसतो वा अनशनादितपोविशेषसमुत्पादित्तांतःप्रचुरदाहस्य महोष्णखर परुषवातसंपर्कजनितगल तालुशोपस्यापि यत्प्राणिपीकापरिहारबुद्धितो जलावगाहस्त्रानपानाद्यनासेवनं तदुष्परीषद सदनं तथा महत्यपि सीते पतति परित्यक्ताऽकल्पनीयवाससः, प्रवच नोक्तेन विधिना कल्पनीयवासांसि परिभुंजानस्य, पक्षिवदनवधारितालयविशेषस्य, वृक्षमूले पशून्यागारेऽन्यत्र वा क्वापि निवसतो हिमानीका सन्मिश्रशीतानिलसंपर्केऽपि तत्प्रतीकारहेतूपादनंप्रति निवृत्तेवस्य पूर्वानुभूतशीतप्रतीकार हेतूनामस्मरतः सम्यग्भावनागर्भं शीतसदनं शीतपरीषद विजयः.
Jain Education International
For Private & Personal Use Only
नाग २
॥ ४३६ ॥
www.jainelibrary.org