________________
पंचसंग
टीका
19911
ते सम्यक् पुनर्जीवेन उत्प्राबल्येन घातो वेदनीयादिकर्मणां विनाशो यस्मिन् क्रियत्रिशेषे स समुद्घातः, तं च समुद्घातं कुर्वन् प्रथमसमये बाहल्यतः स्वशरीरप्रमाण मूईमघश्च लोकांतपर्यंतमात्मप्रदेशानां दंरुमाचरति; द्वितीयसमये पूर्वापरं दक्षिणोत्तरं वा कपाटं, तृतीये मंथानं, चतुर्थेऽवकाशांतरपूरणं, पंचमेऽवकाशांतराणां संहारं, पष्टे मंत्रः, सप्तमे कपाटश्व अष्टमे स्वशरीरस्थो भवति तत्र दंरुसमयात्प्राकू या पल्योपमाऽसंख्येयनागमात्रा वेदनीयनामगोत्राणां स्थितिरासीत्, तस्या बुद्ध्या असंख्येयजागाः क्रियते; ततो दंगसमये दंडं कुर्वन्नसंख्येयान जागान् दंति, एकोऽसंख्येयनागोऽनुतिष्टते.
यश्च प्राकू कर्मत्रयस्यापि रसस्तस्याप्यनंता नागाः क्रियं ते; ततस्तस्मिन् दंडसमये प्रसातावेदनीयप्रथमवर्ज संस्थानपंचकप्रथमवर्ज संहननपंचकाऽप्रशस्तवर्णादिचतुष्कोपघाताऽप्रशस्तविहायोगत्य पर्याप्त काऽस्थिराऽशुनदुर्भगदुःस्वराऽनादेयाऽयशः कीर्त्तिनीचैर्गोत्ररूपाणां पंचविंशतिप्रकृतीनामनंतान जागान् दंति, एकोऽनंतनागोऽवशिष्यते तस्मिन्नेव च समये सातावेदनीयदेवगतिमनुष्यगतिदेवानुपूर्वी मनुष्यानुपूर्वी पंचें दियजातिशरीरपंच कांगोपांगत्रयप्रथम
Jain Education International
For Private & Personal Use Only
भाग १
11 9911
www.jainelibrary.org